पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. ३.
२७
कामधेनुसहिता।

 शब्दस्मृत्यादीनां तत्पूर्वत्वं पूर्वं काव्यबन्धेष्वपेक्षणीयत्वात् ।

 तासा काव्याङ्गत्वं योजयितुमाह-

शब्दस्मृतेः शब्दशुद्धिः ॥ ४ ॥

 शब्दस्मृतेः व्याकरणात् शब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः । शुद्धानि हि पदानि निष्कम्पैः कविभिः प्रयुज्यन्ते ।

अभिधानकोशात्पदार्थनिश्चयः ॥ ५ ॥'

 पदं हि रचनाप्रवेशयोग्यं भावयन्संदिग्धार्थत्वेन न गृह्णीयान्न वा जह्यादिति काव्यबन्धविघ्नः । तस्मादभिधानकोशतः पदार्थनिश्चयः कर्त-

 अथ विद्या उदिशति----शब्दस्मृतीति । 'शास्त्रतस्ते' इत्यत्र सूत्रे अलङ्कारविद्योपयोगस्य प्रागेवोपदर्शितत्वान्नात्र विद्यामध्ये परिगणनमित्यवगन्तव्यम् । शास्त्रशब्दः कलाकामशब्दाभ्यामभिसंबन्धनीयः, तत्संबन्धं विनापि अन्यत्र शास्त्रत्वप्रतिपत्ते. । 'पूर्वाः' इत्यनेन गणितविद्यादिपरिग्रहः । 'प्रधानस्योपकारकमङ्गम्' इति न्यायेन क्रमादङ्गानामङ्गिन्युपयोगं दर्शयिष्यन्ननन्तरसूत्रावताराय पीठिकां प्रतिष्ठापयति- शब्दस्मृत्यादीनामिति ।

 व्याकरणं हि मूलं सर्वविद्यानामिति युक्त्या प्रथमोद्दिष्टायाः शब्दविद्याया उपयोगं दर्शयति-~~-शब्दस्मृतेरिति। व्याचष्टे शब्दस्मृतेर्व्याकरणादिति । साधुत्वनिश्चयः अस्मिन्नर्थेऽयं शब्दः साधुरिति निश्चयः। निष्कम्पैः निर्भयैरित्यर्थः । अपशब्दप्रयोगे तु कविकाव्ययोरनादरणीयत्वप्रसङ्ग इति द्रष्टव्यम् । तदुक्तम् , 'यस्तु प्रयुङ्क्त्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्रं वाग्योगविद्दुष्यति चापशब्दैः ॥' इति । दण्डिनाप्युक्त्तम् , ' गौर्गौः कामदुधा सम्यक्प्रयुक्ता स्मर्यते बुधैः । दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥' इति, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥' इति च ॥

 पदं हीति। अयमर्थः-- 'आधानोद्धरणे तावद्यावद्दोलायते मनः' इत्युक्तनीत्या किमपि पदं काव्यबन्धे प्रयोगयोग्यं पुनः पुनश्चेतसि विनिवेशयन्कवि-