पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
तृतीयोऽध्यायः

अधिकारिचिन्तां रीतितत्त्वं च निरूप्य काव्याङ्गान्युपदर्शयितुमाह-

लोको विद्या प्रकीर्णं च काव्याङ्गानि ॥ १ ॥

 उद्देशक्रमेणैतद्व्याचष्टे-

लोकवृत्तं लोकः ॥ २ ॥

 लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति ।

शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकाम-

शास्त्रदण्डनीतिपूर्वा विद्याः ॥ ३ ॥

  वरिवस्यामि मनसा वचसामधिदेवताम् ।
  लीलालास्यगृहा यस्याश्चतुर्मुखचतुर्मुखी ॥ २ ॥

 अध्यायान्तरमारभमाणः प्रागध्यायप्रपञ्चितमर्थं संक्षिप्य दर्शयन्नध्यायद्वयमैत्रीमासूत्रयति- अधिकारिचिन्तामिति । अङ्गिनि निरूपितेऽङ्गानां निरूपणमुचितमिति संगतिः।

 अङ्गान्युद्दिशति-- लोक इति । वर्णनीयमन्तरेण किं वर्ण्यत इति लोकः प्रथममुद्दिष्टः । ततश्च संस्कृताः शब्दाः । तदनु तदर्थाः । अथ वृत्तम् । अनन्तरमितिवृत्तवैचित्र्यहेतुः शृङ्गाराङ्गं कलाकौशलम् । ततो रसोपयोगी कामव्यवहारः। ततश्चार्थानर्थविवेकहेतुर्दण्डनीतिः । पश्चाल्लक्ष्यज्ञत्वादय इत्युद्देशक्रमः । अत्र 'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥' इति, ‘शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।।' इति" चोक्त्तरीत्या कवित्वबीजं प्रथमं परिगणनीयम् । यत्तु पश्चात् परिगणितमिति, तच्चिन्त्यम् ।

 लोकशब्दोऽयमुपचाराल्लोकवर्तने वर्तत इत्याह-- लोकवृत्तमिति ।