पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८६
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

 तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः अन्यथा तिलकवती कनकवतीत्यादिषु मतुपि 'मतौ बहवोऽनजिरादीनास्" इति दीर्घत्वं स्यात् । अन्ये तु वर्णयन्ति-- 'नद्यां मतुप्' इति यो मतुप् तत्रायं विधिः; तेषां मतं न, अमरावतीत्यादीनामसिद्धेः ।

निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ॥ ७५ ॥

 निशम्य निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि 'ल्यपि लघुपूर्वात्' इत्ययादेशे सति निशमय्येति भवितव्यम्; न निश म्येति । आह--प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । 'शमो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् ।

संयम्यनियम्यशब्दावणिजन्तत्वात् ॥ ७६ ॥

 कथं संयम्यनियम्यशब्दौ? ल्यपि 'ल्यपि लघुपूर्वात्' इति णेरया-


दीर्घनिषेधात्तिलकवतीत्यादयः सिध्यन्तीत्याह-- तिलकादयः शब्दा इति । अजिरादिषु पाठानभ्युपगमे प्रयोगविरोधं प्रदर्शयति-- अन्यथेति । परे तु प्रकारान्तरेण प्रयोगं प्रतिष्ठापयन्ति । तेषां मतं दूषयितुमनुभाषते--- अन्ये त्विति । यत्र 'नद्यां मतुप्' इति नदीविषये मतुप्प्रत्ययो विधीयते तत्रायं दीर्घविधिः । तिलकादिषु तदस्यास्त्यस्मिन्' इति मतुब्विधानात्तिलकवतीत्यादिषु दीर्घाभाव इति वदन्ति । तदेतद्दूषयन्ति-- तेषां मतमिति ।

 निशम्येति । दिवादिपाठादण्यन्तशमिरेका प्रकृतिः । चुरादिषु पाठात् 'शमो दर्शने' इति श्रवणार्थे मित्संज्ञको णिजन्तः शमिरपरा प्रकृतिः। अतः प्रकृतिभेदाद्रूपद्वयसिद्धिरित्याह-निशम्येत्यादि।

 संयम्येति । प्रयोजकव्यापारप्रतीतेरत्र णिका भवितव्यम् । तस्मिंस्तु सति 'ल्यपि लघुपूर्वात्' इति णेरयादशे संयमय्य नियमय्य इति प्रयोक्तव्यम् कथं संयम्यनियम्यशब्दाविति अनुयोक्तुरभिप्रायः । शङ्कामिमां शकलयितुं हेतु-