पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१८५
कामधेनुसहिता।

 श्लिष्टप्रियः, विश्लिष्टकान्त इत्यादयो नेष्टाः, 'स्त्रियाः पुंवत्--' इति पुंवद्भावस्य प्रियादिषु निषेधात् ।

दृढभक्तिरिति सर्वत्र ॥ ७२ ॥

 'दृढभक्तिरसौ ज्येष्ठे' अत्र पूर्वपदस्य अस्त्रियां विवक्षितत्वात् ।

जम्बुलतादयो ह्रस्वविधेः ॥ ७३ ॥

 जम्बुलतादयः प्रयोगाः कथम् ? आह-- ह्रस्वविधेः । 'इको ह्रस्वोऽङयो गालवस्य' इति ह्रस्वविधानात् ।

तिलकादयोऽजिरादिषु ॥ ७४ ॥


सूत्रे प्रियादिषु पुंवद्धावप्रतिषेधादिति दर्शयति-- श्लिष्टप्रिय इत्यादिना ।

 दृढभक्तिरिति । अत्र भक्तिशब्दस्य प्रियादिपाठात् पूर्वपदस्य पुंवद्भावो दुर्घट इति प्राप्ते पूर्वपदस्य दृढशब्दस्य विग्रहवाक्ये स्त्रीत्वस्याविवक्षितत्वात् दृढभक्तिरिति सिध्यतीत्याह- अत्रेति । तथाचाह वृत्तिकारः, 'दृढभक्तिरित्येवमादिषु पूर्वपदस्य स्त्रीत्वस्याविवक्षितत्वात् सिद्धमिति समाधेयम्' इति । गणव्याख्यानकारोऽपि 'दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिः' इति । न्यासकारोऽपि, 'अदार्ढ्यनिवृत्तिपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितमेव । तस्मादस्त्रीलिङ्गस्यैव दृढशब्दस्यायं प्रयोग इत्यभिप्रायः' इति । भोजराजस्त्वन्यथा समाधत्ते भक्तौ च कर्मसाधनायामित्यत्र सूत्रे-- 'कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिषु पाठात् भवानीभक्तिरित्यादौ पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात् पुंवद्भावे सिद्धे स्त्रीपूर्वपदत्वमेव' इति ।

 जन्बुलतादय इति । 'इको ह्रस्वोऽङयो गालवस्य' इति ङ्यन्तव्यतिरिक्तस्येगन्तस्योत्तरपदे परतो विकल्पेन ह्रस्वविधानाज्जम्बुलतादयः सिद्धा इत्याह--- जम्बुलतादय इति ।

 तिलकादय इति । 'मतौ बह्वचोऽनजिरादीनाम्' इति मतुप्प्रत्यये परतोऽजिरादिवर्जितस्य बह्वचो दीर्घविधानात्तिलकादीनामजिरादिपाठाभ्युपगमेन

24