पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७८
[अधि. ५.
काव्यालंकारसूत्रवृत्तिः।

अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति ? नैतदेवम् । 'वृद्धाच्छः' इति च्छविधानात् ।

मुग्धिमादिष्विमनिज्मृग्यः ॥ ५४ ॥

 मुग्धिमा, प्रौढिमा इत्यादिषु इमनिच् मृग्यः अन्वेषणीय इति ।

औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५५ ॥

 औपम्यं सांनिध्यमित्यादयः चातुर्वर्ण्यवत् ‘गुणवचन--' इत्यत्र 'चातुर्वर्णादीनामुपसंख्यानम्' इति वार्तिकात् स्वार्थिकष्यञन्ताः ।

ष्यञः षित्करणादीकारो बहुलम् ॥ ५६ ॥

 'गुणवचनब्राह्मणादिभ्यः-' इति यः ष्यञ्, तस्य पित्करणादीकारो भवति बहुलम् । ब्राह्मण्यमित्यादिषु न भवति । सामग्न्यमि- त्यादिषु विकल्पितः--सामग्न्यं सामग्री, वैदग्ध्यं वैदग्धीति ।

च्छः' इति च्छप्रत्ययप्रसङ्गादिति परिहरति-- नैतदेवमिति

 मुग्धिमादिष्विति । ' पृथ्वादिभ्य इमनिज्वा' इतीमनिच्प्रत्ययो विधीयते । स च मुग्धप्रौढादिशब्देभ्यो न प्राप्नोति, तेषां पृथ्वादिपाठाभावादित्यभिप्रायेण व्याचष्टे--मुग्धिमा पौढिमेति ।

 औपम्यादय इति । 'चातुर्वर्ण्यादयः स्वार्थे ' इति स्वार्थिके प्यञि चातुर्वर्ण्यमिति यथा सिध्यति, तथा चातुर्वर्ण्यादिपाठादुपमैवौपम्यं संनिधिरेव सांनिध्यमित्यादयः स्वार्थिकष्यञन्ताः साधिता इत्याह- औपम्यं सांनिध्यमिति ।

 ष्यञ इति । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् विधीयते। ततश्च ष्यजन्तेभ्यः स्त्रियां 'षिद्गौरादिभ्यश्च' इति यो ङीष्प्रत्ययो विधीयते ; स ईकारो बहुलं भवति क्वचिन्न प्रवर्तते, क्वचिद्विकल्पेन प्रवर्तत इत्याह-ब्राह्मण्यमित्यादिष्विति ।