पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१७९
कामधेनुसहिता।

धन्वीति ब्रीह्यादिपाठात् ॥ ५७ ॥

बीह्यादिषु धन्वन्शब्दस्य पाठाद्धन्वीति इनौ सति सिद्धो भवति ।

चतुरश्रशोभीति णिनौ ॥ ५८ ॥

 'बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन' इत्यत्र चतुरश्रशोभीति न युक्तम् ; व्रीह्यादिषु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति 'ग्रहणवता प्रातिपदिकेन' इति तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिर्लघुत्वात् क्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथं मत्वर्थीयस्याप्राप्तौ चतुरश्रशोभीति प्रयोगः? आह-णिनौ चतुरश्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः।

 धन्वीति । धन्वन्शब्दस्य अदन्तत्वाभावात् । अत इनिठनौ' इतीनिप्रत्ययस्याप्राप्तौ ब्रीह्यादेराकृतिगणत्वेनेनिप्रत्यये सति धन्वीति सिध्यतीत्याह-व्रीह्यादिष्विति

 चतुरश्रशोभीति । अत्र साधुत्वं समर्थयिष्यमाणः प्रामाणिकप्रयोग तावत्प्रदर्शयति-- बभूवेति । अत्र मत्वर्थीयप्रत्ययस्यानुपपत्तिमाह--- अत्र चतुरश्रशोभीति । चतुरश्रा चासौ शोभा च चतुरश्रशोभा, सा अस्यास्तीति चतुरश्रशोभीति मत्वर्थीयेन न सिध्यति, ब्रीह्यादिपाठाभावादिति शङ्कितुरभिप्रायः । अभ्युपगम्यमाने वा ब्रीह्यादिपाठे 'ग्रहणवता प्रातिपदिकेन न तदन्तविधिः' इति बार्तिककारवचनाच्छोभाशब्दान्तादिनिप्रत्ययो न प्राप्नोतीत्याह-व्रीह्यादिष्विति । यथा कथंचिदभ्युपगमेऽपि वा तदन्तविधेः स दोषस्तदवस्थः, 'न कर्मधारयान्मत्वर्थीयः' इति निषेधादित्याह- भवत्विति । कर्मधारयबहुव्रीहिक्रमपरीक्षायां बहुव्रीहिपरिपाटी श्रेयसी, लाघवात् । अतश्चित्रगुशब्दादिवत् बहुव्रीहेर्न मत्वर्थीयस्य प्राप्तिरित्याह--- लघुत्वादिति । प्रयोगानुपपत्तिप्रतिपादनं निगमयति-- तत् कथमिति । चतुरश्रं शोभितुं शीलमस्येति विग्रहे 'सुप्यजातौ णिनिस्ताच्छील्ये' इति ताच्छीलिके णिनिप्रत्यये सति चतुरश्रशोभीति सिध्यतीति सिद्धान्तयति---- चतुरश्रं शोभत इतीति ।