लिटि णलन्तस्य भ्रमात् । निपुणाश्चैवं प्रयुञ्जते- 'आह स्म स्मितमधुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्यत्रापि, मन्ये, स्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति ।
शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ ४५ ॥
'उपस्रोतःस्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमु दितविहङ्गास्तटभुवः' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः' इत्या- दिषु स्त्रियां टापोऽप्राप्तिः 'अन्यतो ङीष्' इति ङीष्विधानात् । तेन शवली कल्माषीति भवति ।
प्राणिनि नीलेति चिन्त्यम् ॥ ४६ ॥
'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् नीलशब्दात् जानपद- इत्यादिसूत्रेण 'प्राणिनि च' इति ङीष्विधानात् ।
मनुष्यजातेर्विवक्षाविवक्षे ॥ १७ ॥
'इतो मनुष्यजातेः' 'ऊङतः' इत्यत्र च मनुष्यजातेर्विवक्षा, अविवक्षा च लक्ष्यानुसारतः।
दधते । शिष्टप्रयोगशैलीं दर्शयति-- निपुणाश्चेति । 'लट् स्मे' इति लटो विधानात् । प्रसङ्गादन्यत्रापि भूतार्थे लट्प्रयोगस्योपपत्तिमाह--अनुकरोतीति ।
शबलादिभ्य इति 'अन्यतो ङीप्' इति डीप्विधानाच्छबलकल्माषादिभ्यः स्त्रियां टाप्प्रत्ययस्याप्राप्तिरिति तथा प्रयोग प्रदर्श्य प्रतिषेधति--- उपस्रोत इति ।
प्राणिनीति । जानपदादिसूत्रे वृत्तिकारेण 'नीलादोषधौ' 'प्राणिनि च' इति विषयव्यवस्थापनात् प्राणिनि विषये नीलशब्दात् ङीष्प्रत्ययः प्राप्तः न तु टाप् । अत प्राणिनि नीलेति न प्रयोक्तव्यमित्याह--- कुवलयति ।
मनुष्यजातेरिति। निम्ननाभिसुतनुप्रभृतिषु यदि मनुष्यजातित्वमभ्युपेयते, तदा 'इतो मनुष्यजातेः' 'ऊङुतः' इति ङीषूप्रत्यययोः प्राप्तौ निम्रनाभेः, सुतनो