पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अधि. २.
१७३
कामधेनुसहिता।

द्विवक्षा, क्वचिदविवक्षा, क्वचिदुभयमिति ।

 विवक्षा यथा- ईहा लज्जेति । अविवक्षा यथा--- आतङ्क इति । विवक्षाविचक्षे यथा-- बाधा बाधः, ऊहा ऊहः, ब्रीडा वीड इति ।

 व्यवसितादिषु क्तः कर्तरि चकारात् ॥ ४३ ॥

 व्यवसितः प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेत्, आवृत्तिः कर्तव्या।

आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि ॥ ४४ ॥

 'ब्रुवः पञ्चानाम्' इत्यादिना आहेति लट् व्युत्पादितः; स भूते प्रयुक्तः 'इत्याह भगवान् प्रभुः" इति । अन्यस्य भूतकालाभिधायिनो

दविवक्षा, क्वचिदुभयमिति । आतङ्क इत्यादिषु स्त्रीत्वस्य अविवक्षितत्वात् घञेव भवति ।

 व्यवसितादिष्विति । व्यवसितः, प्रतिपन्न इत्यादिषु कर्तरि क्तप्रत्ययो न प्राप्नोति, सकर्मकेभ्यो धातुभ्यः कर्माणि क्तप्रत्ययविधानात् , गत्यर्थादिसूत्रेण चाप्राप्तेरिति प्राप्ते गत्यर्थादिसूत्रे चकारेणानुक्तसमुच्चयार्थेन व्यवस्यतिप्रभृतयः समुच्चीयन्त इत्याह-व्यवसित इति । ननु भावकर्मणोरनुकर्षणार्थश्चकारः कथमन्यदप्यनुक्तं समुच्चिनुयादिति शङ्कते--भावकर्मेति । समाधत्ते-आवृत्तिरिति । चकारस्यावृत्तौ भावकर्मणोरनुकर्षणार्थ एकश्चकारः, अन्यः पुनरनुक्तसमुच्चयार्थ इति येन केनाप्युपायेन शिष्टप्रयोगस्य गतिः कल्पनीयेत्यर्थः ।

 आहेति । 'किमिच्छसीति स्फुटमाह वासवः' इत्यादिषु आहेति भूते प्रयुज्यते । स च प्रयोगोऽनुपपन्नः ‘ब्रुवः पञ्चानामादित अहो ब्रुवः' इति ब्रुवो लटि णलाद्यादेशपञ्चकविधानात् । अन्यणलन्तेति । लिटि विहितो यो णल् तदन्तत्वभ्रान्तिमूलोऽयं प्रयोग इत्यर्थः । आहेत्यव्ययमिति केचित्समा-