एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः ।
यथा-
'गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव ॥'
अन्यासादृश्यमेतेन प्रतिपादितम् ।
क्रमेणोपमेयोपमा ॥ १५॥
एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेण उपमेयोपमा ।
यथा-
"खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।'
इयमेव परिवृत्तिरित्येके ; तन्निरासार्थमाह--
समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥
समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः ।
अनन्वयं वक्तुमाह-विरोधेति । एकस्यैवार्थस्यैकस्मिन्नेव वाक्ये उपमानान्तरव्युदासेनातिशयमाधातुमुपमानत्वं चोपमेयत्वं चोपकल्प्यते । तत्र व्यधिकरणयोर्धर्मयोरुपमानत्वोपमेयत्वयोरेकत्रान्वयासंभवादनन्वयालंकारः । रामरावणयोरिति । स्पष्टम् । एकस्यैवोपमानोपमेयत्वकल्पनायां फलितमाह-~अन्येति ।
उपमानान्तरेण असादृश्यं सादृश्याभावः । उपमेयोपमानमुपपादयितुमुपरितनं सूत्रमुपादत्ते- क्रमेणेति । एकस्यैवेत्यनुवर्तते । यत्न क्रमेण वाक्यद्वये एकस्यैव वस्तुन उपमानत्वमुपमेयत्वं च निबध्यते तत्रोपमेयोपमा । खमिवेति । उदाहरणं स्पष्टम् ॥
साम्यशङ्कायामुपमेयोपमात: परिवृत्तिं व्यावर्तयितुं लक्षणं दर्शयतीत्याह- इयमेवेति । व्याचष्टे-समेनेति । समेन समानेन विसदृशेन असदृशेन वा