अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥
यो वर्णानुप्रासः, स खलु अनुल्बणः अपीनः श्रेयान् ।
उल्बणस्तु न श्रेयान् । यथा- 'वल्लीबद्धोर्ध्वजूटोद्भटमटति रटत्कोटिकोदण्डदण्डः' इति ।
पादानुप्रासः पादयमकवत् ॥ १० ॥
ये पादयमकस्य भेदाः, ते पादानुप्रासस्येत्यर्थः ।
तेषामुदाहरणानि यथा-
'कविराजमविज्ञाय कुतः काव्यक्रियादरः।
कविराजं च विज्ञाय कुतः काव्यक्रियादरः॥'
'आखण्डयन्ति मुहुरामलकीफलानि
बालानि बालकपिलोचनपिङ्गलानि ।'
'वस्त्रायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश काशाः
काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः ।
अनुप्रासो द्विविधः--- उल्बणः अनुल्बणश्च । तत्रोल्बणादनुल्बण उत्कृष्ट इत्युपपादयितुमाह--- अनुल्बण इति । व्याचष्टे--- यो वर्णानुप्रास इति । अनुल्बणपदव्याख्यानम्-- अपीन इति । मसृण इत्यर्थः । उदाहरणं तु 'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥' इत्यादि प्रसिद्धमिति मत्वा उल्बणमुदाहरति-- यथा वल्लीबद्धेति ।
‘पादानुप्रासः पादयमकवत्' इत्यत्रातिदेशप्राप्तमर्थमावेदयति--- ये पादयमकस्येति । कविराजमिति । एकत्र आदरः, अन्यत्र दरः । 'दरत्नासौ भीतिर्भीः साध्वसं भयम्' इत्यमरः । उभयत्र आदर इति वा व्याख्येयम् । आखण्डयन्तीति । अत्र ‘लानि' इत्यक्षरानुप्रासः । वस्त्रायन्त इति । हे श्रीशसंकाश, सितकुसुमधराः काशाः नदीनां वस्त्रायन्ते दुकूलवदाचरन्तीत्यर्थः ।