पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०८
[अधि. ४.
काव्यालंकारसूत्रवृत्तिः।

शेषः सरूपोऽनुप्रासः ॥ ८॥

 पदमेकार्थमनेकार्थं च स्थानानियतं तद्विधमक्षरं च शेषः। सरूपः अन्येन प्रयुक्तेन तुल्यरूपः अनुप्रासः ।

 ननु ‘शेषोऽनुप्रासः' इत्येतावदेव सूत्रं कस्मान्न कृतम् ? आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते ; सत्यम् । सिध्यत्येवावृत्तिशेषे; किंत्वव्याप्तिप्रसङ्गः, विशेषार्थं च सरूपग्रहणम्-कार्त्स्न्येनैवावृत्तिः, कार्त्स्न्यैकदेशाभ्यां च सारूप्यमिति ।


कारकस्य विभक्तत्वम् , सुबन्तानां तिङन्तानां च पदानामावृत्तिर्यत्र, तत् यमकाद्भुतम् अतिशयितं यमकमित्यर्थः । क्रमेणोदाहरणानि 'विश्वप्रमात्रा भवता जगन्ति व्याप्तानि मात्रापि न मुञ्चति त्वाम्' इति, 'एताः सन्नाभयो बाला यासां सन्नाभयः प्रियः' इति, 'यतस्ततः प्राप्तगुणः प्रभावे यतस्ततश्चेतसि भासतेऽयम्' इति, 'सरति स रतिकान्तस्ते ललामो ललामः' इत्यादीनि । अत्र विभक्तिविपरिणाममात्रे यमकत्वहानिः । प्रकृत्यर्थस्यापि भेदे यमकाद्भुतत्वमिति विवेकः ।

 इत्थं यमकं लक्षयित्वा अनुप्रासं लक्षयितुमाह- शेष इति । शेषशब्दार्थमाह--- पदमिति । स्थानानियतं प्रागुक्तस्थाननियमरहितमित्यर्थः । एकार्थं पदम् , स्थानानियतमनेकार्थं च, तद्विधं तथाविधमस्थाननियममक्षरं शेषः । सरूपपदार्थमाह-सरूप इति । अन्येन अक्षरेन प्रयुक्तेन पदान्तरेण वा तुल्यरूपः शेषोऽनुप्रासो भवति । अत्र सूत्रे सरूपपदवैयर्थ्यमाशङ्कते---- नन्विति । शेषोऽनुप्रास इत्येव कृते सूत्रे आवृत्तपदानुषङ्गादस्थाननियमं पदमक्षरं च आवृत्तमनुप्रासो भवतीति सूत्रार्थे संपन्ने सारूप्यमर्थात् संपत्स्यते ; किं सरूपग्रहणेनेति शङ्कार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति । अङ्गीकृतमंशमाह-सिध्यत्येवेति । सारूप्यमिति शेषः । तथाप्यावृत्तेरविशेषत्वेन सामान्येन यत् व्याप्तं कार्त्स्न्येनावृत्तत्वम् , तन्मात्रप्रसङ्गः स्यात् ; विशेषस्तु न सिध्येदित्यर्थः । तमेव विशेषं दर्शयितुमाह-विशेषार्थं चेति । यद्यपि सामान्येन कार्त्स्न्येनावृत्तिर्भवति, तथापि कार्त्स्न्यैकदेशाभ्यां सारूप्यमत्र वक्तव्यमिति सरूपग्रहणं कृतमित्यर्थः ।