पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
 

द्वितीयोऽध्यायः ॥

 शब्दगुणविवेके कृते संप्रत्यर्थगुणविवेचनार्थमाह--

त एवार्थगुणाः ॥ १॥

 त एव ओजःप्रभृतयः अर्थगुणाः ।

 वाच्यवाचकद्वारेण शब्दार्थगुणानां भेदं दर्शयति--

अर्थस्य प्रौढिरोजः ॥२॥

 अर्थस्याभिधेयस्य प्रौढिः प्रौढत्वं यत् तत् ओजः ।

  पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा ।

  प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥

 पदार्थे वाक्यवचनं यथा--- 'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः।'


  कारुण्यसंपदुत्कूललावण्यगुणशालिनीम् ।
  स्वच्छस्वच्छन्दवाचालां भावये हृदि भारतीम् ॥ १ ॥

 शब्दगुणविवेचने कृते लब्धावसरमर्थगुणविवेचनमिति संगतिमुल्लिङ्गयन्ननन्तरसूत्रमवतारयति-- शब्दगुणविवेक इति ।

 शब्दगुणा एव चेदर्थगुणाः, किमनेन विधान्तरविधानव्यसनेन, लक्षितत्वात्तेषामित्याशङ्क्य, शब्दार्थगुणानां नामतो भेदाभावेऽपि शब्दार्थोपश्लेषवशादस्ति भेद इत्याह---

 वाच्येति । प्रागुद्देशपरिपाट्या प्रथमप्राप्तमोजः प्रतिपादयितुमाह-- अर्थस्येति । वृत्तिः स्पष्टार्था ।

 प्रौढिं पद्येन पञ्चधा प्रपञ्चयति- पदार्थ इति । तत्राद्यमुदाहरति---