पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अ. १.]
८३
कामधेनुसहिता।

 न गुणा भ्रान्ताः, एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात् ।

न पाठधर्माः सर्वत्रादृष्टेः ॥ २८ ॥

 नैते गुणाः पाठधर्माः, सर्वत्र अदृष्टेः । यदि पाठधर्माः स्युः, तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति ।

  इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने
  तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥


 ओजःप्रमुखा गुणाः पाठधर्मा इति प्रत्यवस्थातारं प्रत्याह-- न पाठधर्मा इति । व्याचष्टे-- नैते गुणा इतिसर्वत्र उदाहरणे प्रत्युदाहरणे च। पाठधर्मत्वे बाधकमाह-- यदि पाठधर्माः स्युरिति । सहृदयसंविदालम्बनतया विशेषाः केचिदपेक्षणीयाः त एव विशेषा गुणा इत्यभ्युपगन्तव्या इति ।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ गुणविवेचनं नाम

तृतीयेऽधिकरणे प्रथमोऽध्यायः॥