पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९२ काव्यमाला । अपृष्टोदाहरणमाह--- कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ १ ॥ कौटिल्यमिति । इदं कौटिल्यादिषु गुणेषुदाहरणम् । द्रव्यक्रियाजातिषु तु स्वयं द्रष्ट व्यानि । लक्षणयोजना च कर्तव्येति । अथ हेतुः--- हेतुमता सह हेतोरभिधानमभेदञ्चद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥ ८२ ॥ हैत्विति । हेतुमता कार्येण सह हेतोः कारणस्य यत्राभिधानमभेदकृदभेदेन भवेस हेतुर्नामालंकारः। अन्येभ्योऽलंकारेभ्यः पृथग्भूतो विलक्षणः । अत्र वालंकारग्रहणम्- न्येभ्यः पृथग्भूत इति च परमतनिरासार्थम्। तथा हि नाम हेतुसूक्ष्मलेशानामलंकारत्वं नेष्टम् । एषां चालंकारत्वं विद्यते । वाक्यार्थालंकरणान्न चान्यत्रान्तर्भावः शक्यते कर्तु मिति ॥ उदाहरणमाह-- अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥ ८३ ॥ । अविरलेति । अविरलानां कमलानां विकासहेतुत्वाद्वसन्तकाल एव तथोच्यते । एवं सकलालिमदत्रेत्यादावपि द्रष्टव्यम् । न त्वविरलानां कमलानां विकासो यत्रेत्यादि बहु त्रीहिः कर्तव्यः । तदा त्वभेदो न स्यात् । उदाहरणदिगियम् । इदं तूदाहरणं यथा -- ‘आयुर्घृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणपूजनम्’ ।। अथ कारणमाला- कारणमाला सेयं यत्र यथा पूर्वमेति कारणताम् । अर्थानां पूर्वार्थाद्भवतीदं सर्वमेवेति ॥ ८४ ॥ कारणेति । सेयं कविप्रसिद्ध कारणमाला यस्यामर्थानां मध्याद्यथापूर्वं यो यः पूर्वः स स उत्तरेषामर्थानां कारणभावं याति । कथं याति पूर्वस्मादर्थादिदमुत्तरोत्तरार्थजातं सर्व मेव भवतीत्यमुना प्रकारेणेति ।। उदाहरणमाह विनयेन भवति गुणवान्गुणवति लोकोऽनुरज्यते सकलः । अभिगम्यतेऽनुरक्तः ससहायो युज्यते लक्ष्म्या ॥ ८९ ॥ विनयेनेति । अत्र पूर्वः पूर्वो विनयादिरुत्तरोत्तरस्य गुणवत्त्वादेनिमित्तम् ॥