पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७ अध्यायः] काव्यालंकारः । आच्छिद्य रिपोर्लक्ष्मीः कृता त्वया देव भृत्यभवनेषु । दत्तं भयं द्विषद्यः पुनरभयं याचमानेभ्यः ॥ ४६ ॥ आच्छिद्येति । अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता । तथैकस्मिन्द्विषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते । पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथ नमर्थ् :। इह तु परिपाटी ।। अथ विषममाह विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम् । यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सवे ॥ ४७ ॥ विषम इति। असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विघटयति । कीदृशं सबन्धम्। असन्तमविद्यमानम् । ननु यद्यसन्संबन्धस्तर्हि स्वयं विघटित एव किमस्य विघटनीयमित्याह-तस्य सत्त्वे सद्भावे परमतं पराभिप्रायमाशङ्कय । परमतेन सन्तं कृत्वेत्यर्थः । उदाहरणमाह यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः । । सततं खलेषु भवतां क्व खलाः क्व च सज्जनस्तुतयः ॥ ४८ ॥ य इति । केनचित्कस्यचिदग्रे उक्तममुना खलेनासौ सज्जनः स्तुत इति । स त्वसह- मानस्तमाह-अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः । यतस्तदनुकूलं बूथ । कस्मात्ते तत्स्तुति न कुर्वन्तीत्याह--यस्य खलस्य यो न विषयः सज्जनस्तवादिः स तं नैव कुर्यात् । किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह-क खलाः क्क च सज्जनस्तुतय इति । अत्र खलस्तुत्योरसन्नेव संबन्धः परमते सत्वाशङ्कया विघटितः । इदं चात्रोदाहरणम् –‘निसर्गदुबधमबोधविक्लवाः क्क भूपतीनां चरितं क जन्तवः' इत्यादि प्रकारान्तरमाह अभिधीयते सतो वा संबन्धस्यार्धयोरनौचित्यम् । यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥ ४९ ॥ अभिधीयत इति । यत्रार्थयोविद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्योऽयं विषमाख्योऽलंकारः । अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः। अ नुचितार्थोऽत्र विषमशब्दः । उदाहरणमाह रूपं क्व मधुरमेतत्व चेदमस्याः सुदारुणा व्यसनम् । इति चिन्तयन्ति पथिकास्तव वैरिवधं वने दृष्ट् ॥ ५ ० ॥