थैव । यथा-‘आषाढी कार्तिकी माघो वचा हिङ हरीतकी । पश्यतैतन्महच्चित्रमायुर्म-
र्माणि कृन्तति ।।
कुसुमभरः सुतरूणामहो नु मलयानिलस्य सेव्यत्वम् ।
सुमनोहरः प्रदेशो रूपमहो सुन्दरं तस्याः ॥ ३९ ॥
कुसुमभर इति । एतस्कश्चिकामी मलयोद्याने तरुणीं दृष्ट्वा स्वयमेव पर्यालोचयति ।
तन्निगदसिद्धम् ।।
इदानीं वाक्यदोषमाह—
वाक्यं भवति तु दुष्टं संकीर्ण गर्भितं गतार्थं च ।
यत्पुनरनलंकारं निदषं चेति तन्मध्यम् ॥ ४० ॥
वाक्यमिति । तुः पुनरर्थे । वाक्यं पुनः संकीर्णगभितगतार्थरूपं दुष्टं भवति । ननु
वाक्यस्य पदात्मकत्वात्पदद्वारेणैव तद्दोष उक्त इति किं पुनरुच्यते । सत्यम् । किं तु
सन्ति तादृशानि वाक्यानि येषु पददोषाभावेऽपि वाक्यस्य दुष्टता भवति । यथा-‘गौरी-
क्षणं भूधस्ज़हिनाथः पत्रं तृतीयं दयितोपवीतम् । यस्याम्बरं द्वादशलोचनाख्यः काष्ठा
सुतः पातु सदा शिवो वः ।' कुसुमभर इत्यादौ वाक्यार्थानामसंगतिरिह तु वाक्याना
मिति विशेषः । ननूपादेयत्वादलंकारनिर्देश एव न्याय्यःततोऽन्यत्सर्वमनुपादेयमिति
सेत्स्यति, किं संकीर्णादिंलक्षणोक्तिप्रयासेनेत्यत आह-यत्पुनरित्यादि । यदलंकारशून्यं
निदषं च तन्मध्यमवाक्यम् । एतदुक्तं भवति--यदि हेयोपादेयपक्षद्वयमेव स्यात्तदा
लंकारनिर्देश एवं । यावता तृतीयं मध्यमपि वाक्यं विद्यत एवेति सर्वमेव वक्तव्यम् ।।
अथ संकीर्णलक्षणमाह
वाक्येन यस्य साकं वाक्यस्य पदानि सन्ति मिश्राणि ।
तत्संकीर्ण गमयेदनर्थमर्थं न वा गमयेत् ॥ ४१ ॥
वाक्येनेति । यस्य वाक्यस्य वाक्यान्तरेण सह मिश्राणि पदानि भवन्ति तत्संकीर्ण
नाम । किमित्येतावता तस्य दुष्टत्वमत आह--गमयेदनर्थम् । यतः कारणाद्विवक्षितमर्थं
वा न गमयेत्ततस्तदृष्टमित्यर्थः ।
उदाहरणमाह
किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणूनम् ।
ननु मुच हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥ ४२ ॥
किमिति । काचित्सखी मानिनीं वक्ति-किमिति कस्मात्पादगतं हृदयनाथं प्रियं
बहुगुणं न पश्यसि । ननु मनसस्तमोरूपं कोषं मुच यज । एनं च प्रियं कण्ठे गृहाण ।
इत्येवंविधो वाक्योऽत्र विवक्षितः । पदानां तु मिश्रत्वादुष्टोऽथ गम्यते । यथा-पाद
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७१
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६ अध्यायः]
८१
काव्यालंकारः ।
