किं चिन्तयसि सखे त्वं वच्स् ित्वामसि पश्य पश्येदम् ।
ननु किं न पश्यसीदृक्पश्य सखे सुन्दरं स्त्रैणम् ॥ ३१ ॥
किमिति । कश्चिन्मित्रमाह—हे सखे, इदमीदृक्सुन्दरं रम्यं स्त्रैणं स्त्रीसमूहं पश्येति।
तेन त्वन्यगतचित्तत्वान्न श्रुतमतः स पुनराह-किं चिन्तयसीत्यादि । अत्र पश्य पश्येति
पदपौनरुक्त्यं नन्वित्यादि तु वाक्यपौनरुक्त्यम् । ननुरभिमुखीकरणे ।
भूयोऽप्याह
अन्याभिधेयमपि सत्प्रयुज्यते यत्पदं प्रशंसार्थम् ।
तस्य न दोषाय स्यादाधिक्यं पौनरुक्त्यं वा ॥ ३६ ॥
अन्येति । प्रशंसालक्षणादर्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदित्थंभूतमपि सत्प्रशं
सार्थं प्रयुज्यते यतस्तस्याधिक्यं पौनरुक्त्यं वा दोषाय न भवति । अन्याभिधेयस्य हि
प्रस्तुतार्थानुपयोगिनः प्रयोगे सत्याधिक्यं स्यात् । पदान्तरेणैवोक्ततदर्थस्य तु पौनरुक्त्यं
स्यात् । ननु यद्यन्याभिधेयं कथं प्रशंसार्थं प्रयोगः, प्रयोगवेन्नान्याभिधेयमिति । सत्यम् ।
अन्याभिधेयस्यापि प्रशंसार्थगमकतास्तीति । यथा मुनिशार्दूलःकर्णतालःकेशपाशः
! नृपपुंगवः, गोनागःअश्वकुञ्जरः । तथा चूतवृक्षःमलयाचलःइत्यादिषु शार्दूलादि-
शब्दानां व्याघ्रादिवाचित्वेनान्याभिधेयत्वेऽपि, वृक्षादीनां तु पदान्तरोक्तार्थत्वेऽपि प्रशं
सार्थगमकत्वेन न दुष्टतेति ।
निदर्शनमाह
नासीरोद्धतधूलीधवलितसकलारिकेशहस्तस्य ।
अविलङ्घयोऽयं महिमा तव मेरुमहीधरस्येव ॥ ३७ ॥
नासीरेति । नासीरं सैन्यं तदुत्खतथूल्या धवलिताः सकलारीणां केशहस्ताः के
शकलापा येन तस्य तवाविलञ्चनीयो महिमा । कस्येव । मेरुमहीधरस्येव मेरुपर्वतस्य
यथा । अत्र हस्तशब्दस्य पाणिवाचकस्यान्यार्थस्यापि नाधिक्यम् । महीधरशब्दस्य च
मेरुपदान्तरेण गतार्थस्य न पौनरुक्त्यम् । प्रशंसार्थवादिति
परस्परं संबद्धपदं वाक्यं प्रयुञ्जीतेति यदभ्यधायि तदतिव्याप्ति संजिहीर्थराह
यस्मिन्ननेकमर्थं स्वयमेवालोचयेत्तदर्थानि ।
जल्पन्पदानि तेषामसंगतिंनैव दोषाय ॥ ३८॥
यस्मिन्निति । यस्मिन्वाक्ये वक्तानेकार्थवाचकानि पदानि जल्पन्स्वयमेवानेकमर्थमा-
लोचयति तेषां तद्वाक्यपदानामसंगतिनैव दोषाय । विवक्षावशेन हि शब्दाः प्रयुज्यन्ते ।
वक्ता चेत्स्वयं विलक्षणमनेकमर्थं वक्तुकामोऽन्योन्यमसंबद्धानि पदानि व्रते तत्किमसां
गत्यम् । असंबद्धत्वाच्च दोषाशङ्का चेति स्वयंग्रहणात्परेण यत्र प्रतिपाद्यस्तस्रासंगतिर्द्र
स ¥
|
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७०
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
काव्यमाला ।
