पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ अध्यायः]

काव्यालंकारः।


विस्तरत इति । व्युत्पत्तिसंबन्धिनो विस्तारात्किमन्यद्विद्यते यदन्तःपाति न भवति । कुत इत्याह-यस्मादिह लोके न तद्वाच्यमभिधेयमस्ति, न वाचकः शब्दो विद्यते यत्काव्याङ्गं काव्योपकरणं न भवतीति । ततो हेतोरेषान्या विस्तृता व्युत्पत्तिः । ततः संक्षेपाद्वा सकाशात् । अन्येति द्वितीया । सर्वज्ञत्वमेव विस्तीर्णा व्युत्पत्तिरित्यर्थः । उक्तं च-'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यत्न काव्याङ्गमहो भारो महान्कवेः ।।' अभ्यासो लोकप्रसिद्ध एव ॥

केवलं तस्य स्थाननियमं कर्तुमाह-
अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम् ।
नक्तंदिनमभ्यस्येदभियुक्तः शक्तिमान्काव्यम् ॥ २० ॥


अधिगतेति । वाक्यार्थः सुगम: । अत्राह-ननु यद्यधिगतसकलज्ञेयः शक्तिमांश्च र्तात्क सुजनस्य सुकवेः संनिधानेऽभ्यस्यति । सत्यम् । छन्दोव्याकरणादिविषयलक्षणा- तिरिक्तमन्यदपि ज्ञेयं जानाति । यन्महाकविलक्ष्येषु दृश्यते । सुजनत्वाच्च निर्मत्सरो भूत्वा सर्वमसौ दर्शयति । तथाहि । छन्दसि पिङ्गलजयदेवाद्यनुक्तान्यपि वृत्तानि सुक- विकाव्येषु दृश्यन्ते बहुशः । यथा माघस्य -'कृतसकलजगद्विबोधो विधूतान्धकारोदयः क्षपितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । गुरुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमन्हामयं नायकः ॥' तथा भारवे:--'इह दुरधिगमैः किंचिदेवा- गमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्म- योनिः परम् ॥' एवमन्येषामपि सन्ति । तथा व्याकरणे वर्वाष्टै-अजर्घाः-सस्ति-दर्द्रष्टि- ईट्टे ईर्त्सति-जिह्वायकयिषति-अड्डिडिषतीत्येवमादीनि पदानि न प्रयोज्यानि । काव्यस्य माधुर्यलालित्यविनाशप्रसङ्गात् । तथा क्षपि-मिलि अर्थि-वचि-क्लीवप्रभृतयो धातवो धातु- गणेषु पठिता अपि । सहेश्च परस्मैपदं प्रयोगदर्शनात्प्रयोक्तव्यम् । पदविषयं च यथा पक्ष्मशब्दोऽक्षिरोमस्वभिधानेषु पठितोऽन्यत्रापि दृश्यते । यथा माघस्य–'निसर्गचित्रो- ज्ज्वलसूक्ष्मपक्ष्मणा' इति । एवमन्यदपि कलादिविषये द्रष्टव्यम् । यत्सुजनकविसंनिधा- नाज्ज्ञेयम् । नियतमित्यनेन सुकविसंनिधान एवाभ्यास: कार्य इति नियम इति । नक्तं- दिनमित्यनेन तु यदैव पट्वी बुद्धिः क्षणश्च भवति तदैवाभ्यस्येत्, न पुनर्यथा कैश्चिदुक्तम् "पश्चाद्रात्रे एव' । इति तु कवेः काव्यकरणेऽत्यन्तादराधानार्थम् ॥

पुनः काव्यस्य प्रयोजनान्तरमाह-
स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम् ।
कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात् ॥ २१ ॥

स्फार इति । स्फारो दृढः, स्फुरञ्ञनमनःसु प्रसरन् , अत एवोरुविस्तीर्णो महिमा यस्य कवेः सः। तथा यशः कीदृशम् । हिंमधवलमित्यादि सुगमम् ॥


१. माघश्लोकस्य महामालिनीछन्दः, भारविश्लोकस्य च क्षमाछन्द इति टीकायां

मल्लिनाथ:.