पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

अथ शक्तिस्वरूपमाह‌-

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य ।
अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ १९ ॥

मनसीति । असौ शक्तिर्यस्यामविक्षिप्ते चेतसि सदानेकप्रकारस्य वाक्यार्थस्य विस्फु रणम् । यस्यां चाक्लिष्टानि झगित्येवार्थप्रतिपादनसमर्थानि पदानि प्रतिभान्ति । यद्वशा- ध्दृदयंगमौ नानाविधौ शब्दार्थौं प्रतिभासेते सा शक्तिरित्यर्थः । अस्या एव भेदानाह

प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति ।
पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा ॥ १६ ॥

प्रतिभेति । एषा च शक्तिरपरैर्दण्डिमुख्यैः प्रतिभेत्युक्ता । सा च द्विधा भवति । कथम् । सहजोत्पाद्या चेति । तयोश्च मध्यात्सहजा ज्यायसी प्रशस्यतरा । पुंसा स होत्पन्नत्वातू ।। यदि नाम पुंसा सहोत्पन्ना किमित्येतावता ज्यायसीत्याह

स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् ।
उत्पाद्या तु कथंचिद्वयुत्पत्त्या जन्यते परया ॥ १७ ॥

स्वस्येति । असौ सहजा शक्तिः स्वस्यात्मनः संस्कार उत्कर्ष एव परं केवलम् । अविद्यमानः परोऽन्यो यस्मादसावपरोऽभ्यासस्तं यतो मृगयतेऽन्वेषयति नोत्पत्तावतो ज्यायसी । उत्पत्तौ तु सहजातत्वमेव हेतुः । उत्पाद्या तु व्युत्पत्त्या परयानन्तरया कथं चिन्महृता कष्टेन जन्यते । अतो न ज्यायसी सा । इदानीं व्युत्पत्तिस्वरूपमाह

छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् ।
युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ॥ १८ ॥

छन्द इति । छन्दो जयदेवादि, व्याकरणं पाणिन्यादि, कला नृत्यादिविषयभरता दिप्रणीतशास्राणि, लोकाः स्वःप्रभृतयस्तेषु चराचरादिस्वरूपनियमः स्थितिः, पदानि नाममालापठिताः पर्यायशब्दाः, पदार्थस्तेषामेव पदानामभिधेयार्थविषयप्रवृत्तिनैयत्यम् । एतेषां षण्णां छन्दःप्रभृतीनां विज्ञानाद्विशिष्टावगमाद्धेतोर्यो युक्तायुक्तविवेक उचितानु- चितत्वपरिज्ञानम् । यथात्रेदं छन्द उचितमनुचितं वेत्यादि सर्वेषु द्रष्टव्यम् । व्युत्पत्तिरि- यम् । समासेन संक्षेपेण ॥ तर्हि विस्तरेव्युत्पत्तेः किं स्वरूपमित्याह-

विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके ।
न भवति यत्काव्याङ्गं सर्वज्ञत्वं ततोऽन्यैषा ॥ १९ ॥