पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाला ।

काव्यमाला। अहिणवकमलदलारुणिण माणु फुरत्तिण केण । जाणिज्जई तरुणीअणस्स निडा(?) भण अहरेण ॥ ३२ ॥ उद्यन्निति । अहिणवैति । कश्चिन्मूर्खात्वेन मृगः सन्कंचन पृच्छति-यथा मयं मृ गाय त्वं कथय । एष दिवसकरः सूर्य उद्यन्नुदयं प्राप्नुवन्कि कुरुत इत्येकः प्रश्नः । अप- रमाह--अनिन्द्रायाशत्राय मयं कथय निवेदय । कणितुकामः शब्दितुकामः सन्नहं किं करवाणि किं करोमीति द्वितीयः । उत्तरानुरोधेन चात्र मृगायेत्यनिन्द्रायेति च प्रश्नवाक्येऽभिहितम्। वक्त्रबहुत्वख्यापनार्थमनेकभाशत्वख्यापनार्थे तृतीयप्रश्नोऽयं प्राकृते । यथा —अहिणवेत्यादि । कश्चित्सुहृदमाह-अभिनवकमलदलारुणेन स्फुरता केन त- रुणीजनस्य मानो लक्ष्य इति भण वद । निद्धेत्यामंत्रणपदं (?) । अत्र यथाक्रमं य यथाभषं चोत्तरमाह-अहरेणेति । तत्र–यथाभषं । एण हे मृग। तथा अहरेऽनिन्द्र। अण शब्दं कुरु । तथा प्राकृतोत्तरम्-अहरेणाधरेण । ओष्ठेनेत्यर्थः । इत्युत्तरत्रयं युग पदुक्तम् । एतदनेकवक्तृकमनेकभाषं व्यस्तसमस्तं च प्रश्नोत्तरम् । एकवक्तृकं व्यादि- भाषं च प्रश्नोत्तरजातमन्यत्र विस्तरादवगन्तव्यम् । अथाध्यायमुपसंहरन्नाह इत्थं स्थितस्यास्य दिशं निशम्य शब्दार्थवित्क्षोदितचित्रवृत्तः । आलोच्य लक्ष्यं च महाकवीनां चित्रं विचित्रं सुकविर्विदध्यात् ॥३३॥ इत्थमिति । अस्य चित्रस्येत्थं पूर्वोक्तप्रकारेण स्थितस्य दिशं मार्गे निशम्य श्रुत्वा तथा महाकवनां लक्ष्यमुदाहरणं चालोच्य विमृश्य ततः सुकविश्वित्रमलंकारं चित्रं ना नाविधं विदध्यात्कुर्यात् । किंविशिष्टः सन् । शब्दार्थौ वेत्ति शब्दार्थवित् । तथा क्षोदि तानि पर्यालोचितानि चित्राणि नानाविधानि वृत्तानि तनुमध्यादीनि येन स तथाविधः । यतः किल न सर्वेण वृत्तेन सर्वे चित्रं कर्तुं पार्यते । तथालोच्य वीक्ष्य, लक्ष्यमुदाहरणम्, महाकवीनां सुकवीनाम् । चित्रकरणे किल लक्षणाभावाल्लक्ष्यदर्शनमेव महांनुपाय ? -- * इति कृत्वा । इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चमोऽध्यायः समाप्तः । षष्ठोऽध्यायः । शब्दस्यालंकारानभिधायेदानीं तदोषानभिधित्सुराह - पदवाक्यस्थो दोषो वाक्यविशेषप्रयोगनियमेन । यः परिहृतस्ततोऽन्यस्तदतिव्याप्तिश्च संह्नियते ॥ १ ॥ पदवाक्यस्थ इति । पूर्वम् ‘अन्यूनाधिक- '(२८इत्यादिना ग्रन्थेन काव्योपयोगिनो वाक्यविशेषस्य प्रयोगे नियमेन यः पदस्थो वाक्यस्थश्च दोषः परिहृतः, ततो दोषादन्यो-