पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'५ अध्यायः]
५९
काव्यालंकारः ।

रणोपान्तं तोरणनिकटं राजपथो नियतमगम्यमदृश्यं च भवति । कुलवधूत्वादिति । बिन्दुच्युतकमाह--कान्त इत्यादि । कश्चित्कंचिदाह-एष बालेन्दुरपूर्णचन्द्रः खे वि- यति सदा न भवति । कान्तः कमनीयः । अत एव नयनानन्दी नयनानन्दकरः। अत्र बिन्दौ च्युतेऽर्थान्तरं भवति । इदं काचित्सखीमाह—है बाले मुग्धे, कान्तो वल्लभो नयनानन्दी दुःखेन क्लेशेन भवति सदा । तस्मान्मैनं तिरस्कार्षीरिति शेषः । व्यञ्जनच्यु तकाक्षरच्युतकेत्यादिग्रहणात्संगृहीते तदुदाहरणे अप्यनयैव दिशा द्रष्टव्ये ।। अथ स्पष्टप्रच्छन्नार्थप्रहेलिकामाह कानि निकृत्तानि कथं कदलीवनवासिना स्वयं तेन । कथमपि न दृश्यतेऽसावन्वक्षं हरति वसनानि ॥ २९ ॥ कानीति । कदलीवनवासिना रम्भावनगतेन नरेण कानि निकृत्तानि कानि च्छि न्नानि । कथं केन प्रकारेणेति प्रश्ने। स्पष्टोऽपि प्रच्छन्नोऽर्थः। स चायम्-कानि शिरांसि मस्तकानि निकृत्तानि। कथम् । कदलीव रम्भेव। केन। असिना खङ्गेन । कियन्ति । नव नव• संख्यानि । स्वयमात्मना । तेन दशाननेन । कथंशब्दोऽत्र विस्मये । चित्रमिदं यत्स्वयं तृणराजवदात्मनः शिरांसि च्छिन्नानीत्यर्थः । प्रश्नोत्तरावस्या अयमेव विशेषो यत्प्रश्न वाक्येनैवोत्तरदानम् । अथ व्याहृतार्थमाह--कथमपीत्यादि । असौ कश्चिदन्वाँ प्रत्यक्ष मेव वसनानि वस्त्राणि हरति । अथ च कथमपि न दृश्यते नावलोक्यते । अतः कोऽयं स्यात् । अत्रासाधारणविशेषणोपादानाद्वायुरिति गम्यते । नान्यस्य चौरादेरेवंविधा शक्तिरिति । प्रश्नोत्तराच्चास्या वायुर्वातः समीर इत्याद्यनियतशब्दत्वं विशेषः । अथ कारकगूढमाह पिबतो वारि तवास्यां सरिति शरावेण पातितौ केन । वारि शिशिरं रमण्यो रतिखेदादपुरुषस्येव ॥ ३० ॥ पिबत इति । कश्चित्कंचिदाह--तवास्यां सरिति नद्यां शरावेण वर्धमानकेन भाजन विशेषेण जलं पिबतः केन पातितौ । कौ पातिताविति साकाङ्कत्वात्कर्मात्र गूढम् । त चैवं प्रकटम्-- हे एण मृग, तवास्यां सरिति वारि पिबतः केन शरौ बाणौ पातिता विति । अथ क्रियागूढम्-वारि शिशिरेत्यादि । वारि जलम्, शिशिरं शीतलम् , रम ण्यो नार्यः, रतिखेदान्निधुवनायासादपुरुषस्येव । अत्र क्रिया गुप्ता । सा चेयं-रमण्यो रतिखेदाद्वारि शिशिरमुषस्येव प्रभात एवापुः पीतवत्यः । अथ प्रक्षोतरमाह-- उद्यन्दिवसकरोऽसौ किं कुरुते कथय मे मृगायाशु । कथयानिन्द्राय तथा किं करवाणि क्वणितुकामः ॥ ३१ ॥