एतदाहः सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि ।
यमकानां जानीयात्तदुदाहरणानि तद्वच्च ॥ ४९ ॥
सुमतिरिति । एतानि यमकानां त्रीणि दशकानि प्राज्ञः पादावृत्तिक्रमेण मुखसंदंशादिसंज्ञाभिर्जानीयात् । तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण । सर्व चैतद्विधा विभ
क्तपाद इव यमकजातं ज्ञेयम्। केवलं तृतीयभागकृतो विशेषः ।
तदेवाह अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति ।
यमकान्याद्यन्तकवत्तथापरामर्धपरिवृत्तिम् ॥ ५० ॥
अन्तादिकमिति । ययान्तादिकमाद्यन्तकं च पूर्वत्र षोढा भिन्नं सत्प्रत्येकं षड्यम
कानि जनितवत्तथेदमपि । तथापरामन्यामर्धपरिवृति द्वेधाविभक्तपादवज्जनयति ।
तथाशब्दस्योभयत्र योगः। इति त्रयोदश यमकानि ।।
एषामुदाहरणानि कानीत्याह
तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम् ।
कृत्वार्धशश्च भागानिहापि सर्वं तथा रचयेत् ॥ ५१ ॥
तद्वदिति । उदाहरणान्यपि तद्वदेव त्रयोदश ज्ञेयानि । उपलक्षणं चैतत् । पादसमुद्भ
कवदिहापि पञ्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम् । तत्र तु द्वयस्य
पुनरपि भेदानाह--कृत्वार्घशवेत्यादि । यथा पूर्वत्रार्धार्धानि कृत्वा वक्रशिखामालामध्या-
द्यन्तकाश्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देयानीति ॥
भूयो भेदान्तराण्याह
स्थानाभिधानभाजि त्रीण्यन्यानीति सन्ति यमकानि ।
आदिर्मध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः ॥ ५२ ॥
स्थानेति । त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति । किं
नामधेयानीत्याह-स्थानाभिधानभाभीति । स्थानकृतमभिधानं भजन्ते यानि । कथ-
मित्याह—आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम्। आदिभागेऽन्त्येन चेत्तदा
द्यन्तयमकम् । मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम् ।
तदुदाहरणत्रयं क्रमादाह
स रणे सरणेन नृपो बलितावलितारिजनः।
पदमाप दमात्स्वमतेरुचितं रुचितं च निजम् ॥ ५३ ॥
स इति । स कश्चिनृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच्च हेतोः स्वमते
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३३
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
३३
काव्यालंकारः ।
