निजबुबेरु चितं योग्यं रुचितमिष्टं च निजं स्वकीयं पदं स्थानमाप लेभे । कीदृशोऽसौ ।
बलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको येन स तथाविधः । इत्यादि
मध्यम् ॥
घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन् ।
सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥ ५४ ॥
घनेति । एतत्प्रावृषि पथिकस्य सुहृदोच्यते-“हे घनाघ गृहाननुसरणाद्वहुपाप, अय
मसौ नभाः श्रावणो मासो न नैति । अपि त्वायात्येव । नभःशब्दो मासवाचकः पुंलिङ्गः ।
कीदृशो नभाः । घनाघनान्सजलजलदानुदारयन्विस्तारयन् । अनु पधाच्च मनश्चित्तं
दारयन्विपाटयन् । तथा है सखे अविलास निर्लील, तां कान्तामदयं निर्दयं खेदयन्नुद्वे-
जयन्नहीयसे सर्पायसे । अथवा गोर्बलीवर्दान्न हीयसे । बलीवर्द एवासीत्यर्थः । इत्याद्य-
न्तयमकम् । असतामहितो महितो युधि सारतया रतया ।
स तयोरुरुचे रुरुचे परमेभवते भवते ॥ ९९ ॥
असतामिति । हे उरुरुचे विस्तीर्णकान्ते। अथवा उर्वी रुग्यस्य स तस्मै विस्तीर्ण
कान्तये । स कश्चिद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान् । तया जनप्रसिद्धया
युधि रणे सारतयोत्कृष्टतया हेतुभूतया । कीदृश्या। रतया सक्तया । संबद्धयेत्यर्थः ।
कीदृशोऽसौ । असतां दुर्जनानामहितो द्रोहकारी। अत एव महितः पूजितः । भवते
कीदृशाय । परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै ।
अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्त्यमाह
यमकानां गतिरेषा देशावयवावपेक्षमाणानाम् ।
अनियतदेशावयवं त्वपरमसंख्यं सदेवास्ति ॥ १६ ॥
यमकानामिति । देश आदिमध्यान्तलक्षणः। अवयवोऽर्धत्रिभागादिः । तोै देशाव- है।
यवावपेक्षमाणानामत्यजतां यमकानां गतिरेषा परिपाटीयम् पूर्वेक्ता । यत्तु यमकं देशाव
यंवौ नापेक्षते तदपरमसंख्यमसंख्यातम् । तच्च महाकविलक्ष्येषु सदेव साध्वेवास्ति वि
द्यते । एतदुक्तं भवति-स्वेच्छाकृतत्वेनानन्तत्वातस्य लक्षणं कर्तुं न शक्यते ।
केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम् ।
अत्र तु दिङ्मात्रप्रदर्शनार्थमाह-
कमलिनीमलिंनी दयितं विना न सहते सह तेन निषेविताम् ।
तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥ १७ ॥
कमलिनीति । सालिनी भ्रमरी दयितं प्रियं विना कमलिनीं पद्मिनीं न सहते न
क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । कीदृशीं कमलिनीम्। तेन दयितेन सह समं निषेवि
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/३४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
काव्यमाला ।
