अथ महायमकं श्लोकद्वयेनाह
स त्वारं भरत्तोऽवश्यमबलं विततारवम् ।
सर्वदा रणमानैषीदवानलसमस्थितः ॥ १८ ॥
सत्वारम्भरतो वश्यमवलम्बिततारवम् ।
सर्वदारणमानैषी दवानलसमस्थितः ॥ १९ ॥
स इति । सत्वेति । स पूर्वप्रकान्तो वित्' । तुशब्दः क्रियान्तरोपन्यासार्थः । आरम-
रिसमूहम्, भरतो भरेण, अवश्यं निश्चितम्, अबलं बलरहितम्, विततारवं क्रुतभयार्ति-
विस्तीर्णनि:स्वनम्, सर्वदा सदा, रणं समरम्, आनैषीदानीतवान् । कीदृशोऽसौ । अवा-
नगच्छन् । कम् । अलसं निष्क्रियं जनम् । तथास्थितोऽस्थीनि शत्रूणां तस्यति
क्षयं नयतीत्यस्थित इति। तथा सत्वेनावष्टम्भेनारम्भा ये तेषु रतः सक्तः । कीदृशमारम्।
वश्यं वशगतमथवावश्यमनायत्तम्, अवलम्बिततारवं समाश्रिततरुसमूहम् । विकीदृशः ।
सर्वदारणमानैषी सर्वेषां यद्दरणं विनाशनं तेन मानमिच्छतीति कृत्वा, अत एव दवान-
लेन दवाग्निना समं तुल्यं स्थितं स्थितिर्यस्येति । शब्दश्लेषस्यास्य च महायमकस्यायं
विशेषः । तत्रैकेनैव प्रयत्नेन वाक्यद्वयमुच्चार्यतेइह द्वाभ्याम् ||
एवं समस्तपादजं यमकमाख्यायेदानीमेकदेशजमाह-
पादं द्विघा त्रिघा वा विभज्य तत्रैकदेशजं कुर्यात् ।
आवर्तयेत्तमंशं तत्रान्यत्रापि वा भूयः ॥ २० ॥
पादमिति । यच्छन्दोऽर्थादिभागं ददाति तस्य पादं द्विघा त्रिघा वा विभज्य द्वि-
खण्डं त्रिखण्डं वा कृत्वा तत्र विभक्तंऽश एकदेशजं यमकं कुर्यात् । कथमित्याह--आ-
वर्तयेद्यमकयेत्तमंशं विभक्तं भागम् । तत्रैवांशे प्रथमार्धानि प्रथमार्थेषु द्वितीयार्धानि द्वि-
तीयाधेष्वित्यादिक्रमेण । अन्यत्र वाप्यंशान्तरैर्भूयः प्रभूतमावर्तयेत् । अंशान्तरावृत्तौ
बहवो मेदा भवन्तीत्यर्थः। अपिशब्दः समुच्चये ।|
तत्रैवावृत्त्या ये भेदाः संभवन्ति तानाह
आद्यर्थान्यन्योन्यं पादावृत्तिक्रमेण जनयन्ति ।
दश यमकान्यपरस्मिन्परिवृत्या तद्वदन्यानि ॥ २१ ॥
आद्यर्धानीति । श्लोकपादचतुष्टयस्य प्रथमार्धान्यपरस्मिन्पादेऽन्योन्यं परस्परं पादा
वृत्तिक्रमेण समस्तपादद्वययमकवद्दश यमकानि जनयन्ति । तद्वत्तथैव चान्त्यान्यपि दश
जनयन्ति । तानि च मुखसंदंशावृतिगर्भसंदष्टकपुच्छपङ्किपरिवृत्तियुग्मकसमुद्रकसंज्ञानि ।
कि पुनेरषामुदाहरणानि नोक्तानीत्याह-
एतदुदाहरणानां पादावृन्त्यैव दर्शितो मार्गः ।
इह विंशतिभेदमिदं यमकं नोदाहृतं तेन ॥ २२ ॥
पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२६
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला ।
