पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३ अध्यायः]
२१
काव्यालंकारः ।


 अथ युग्मकम्-

विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना ।
महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥ ११ ॥

विनेति । कश्चित्कंचिदाह --अयं महाजनः सत्पुरुषलोकः । एनोऽपराधं विना । अनपराध इत्यर्थः । अदीयत खण्ड्यते स्म । केन । यमेन । किं कुर्वता यमेन । नयतात्म- समीपं प्रापयता । तथासुखादिना प्राणभक्षणशीलेन । ऊनयता महाजनमूनिर्कुर्वता । सुखादिना सौख्यभक्षकेण । अथवा सुखादिनार्थेन न्यूनयता । कीदृशो महाजनः। विना विगता नरो यस्मात् । यमं प्रति पुरुषकारविफलत्वाद्विपुरुष इत्यर्थः । बहुलत्वाक्तो न भवति । यद्वा विनष्टो ना पुरुषो विना । पुनः महाजनः कीदृशः । मानसान्मानमहंकारं सादयतीति मानसाद्रिपूणाम् । यदि वा मानसाच्चित्तात्सकाशात्सुखादिना । तथा महाज- नोदी महमुत्सवमजन्ति क्षिपन्ति महाजा दुर्जनास्तान्नुदति प्रेरयतीति महाजनोदी। कथ- मदीयत । अरं शीघ्रम् । तथा यतमानसादरं यतमानानां मरणप्रतिक्रियाव्यापृतानां सादं खेदं राति ददातीति च क्रियाविशेषणम् ।। एतानि नव यमकानि समस्तपादस्योक्तानि । अधुना समस्तपादयोः समस्तपादानां चाह-

अर्धं पुनरावृत्तं जनयति यमकं समुद्रकं नाम ।
श्र्लोकस्तु महायमकं तदेवमेकादशैतानि ॥ १६ ॥

अर्धमिति । प्रथममर्धे पुनरावृत्तं भूय उच्चरितं समुद्रकाख्यं यमकं जनयति करोति । नामशब्दः संस्थाननिषेधसूचनार्थः । तेन चित्रमध्येऽस्य नान्तर्भावः । अर्धद्वयसारूप्येण च समुद्रकसादृश्यम् । श्र्लोकः श्र्लोकान्तरे यमकितो महायमकं जनयति । तुः पुनरर्थे । श्र्लोक इत्येकवचनं द्वयोख्यादीनां च यमकत्वनिवृत्त्यर्थम् । यथालक्ष्येष्वदर्शनात् । एवं मुखादारभ्य महायमकान्तान्येकादशैतानि समस्तपादयमकानि भवन्ति । तत्र समुद्रकम् ---

{{bold|

ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम् ।
न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम् ॥ १७ ॥}}

ननामेति । लोको जनो विदं पण्डितं ननाम प्रणतः । केन । आनवेन स्तुत्या । की- दृशः । महा उत्सवाः सन्त्यस्येति मही । तथारीन्रिपुस्र्त्रयतेऽरित्रा मुत्प्रमोदो यस्य स तथाभूतो न च नैव । विदं कीदृशम् । अरीणां समूह आरं तस्य धीर्बुद्धिस्तामीरयतीति तं तथाविधम् । लोकस्तु न नामल:,अपि त्वमलो निर्मल एव। विदं पुनः किदृशम् । अकोविदा मूर्खास्तेषां मानमहंकारं वान्ति गन्धयन्ति नाशयन्तीत्यकोविदमानवास्तेषामिनः स्वामी तम् । तथाहीनचारित्रमखण्डशीलम् । उदारो विपुलाशयो धीरो धैर्योपेतः। उदारं च धीरं चेति ।