पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६२ काव्यमाला । सकलेति । सुगमम् । मध्याधमौ तु प्रसङ्गौ स्वयमुनेयौ । तत्र प्रत्यक्षदोषदर्शने परिहारो नास्ति लिङ्गगम्ये त्वस्तीत्याह परिहारो वसनादावन्यस्मादागमोऽन्यदिदमिति वा । परिहर्तुं कृतमस्मिन्न लक्ष्यते नायिकां रमयेत् ॥ २२ ॥ तदनु त्वत्कृतमिदमिति परिहारः पूर्वमेव वा सुरतम् । शब्दान्तरनिष्पत्तिगोत्रस्खलने तु केलिर्वा ॥ २३ ॥ अभियोज्यायां मयि वा कुपितेयमनेन हेतुना तेन । वक्ति सखी ते मिथ्या किलेति तद्वचसि परिहारः ॥ २४ ॥ परेिदार इति । तदन्विति । अभियोज्यायामिति । सुगमम् ।। अथ यतः कोपान्नायकाय कुरुते (!) तदाह ज्यायोभिः सह दोषो ज्यायाञ्जनयत्यसाध्यमतिकोपम् । तस्मान्म्रियते सद्यो मनस्विनी त्यजति वा पुरुषम् ॥ २१ ॥ ज्यायोभिरिति । सुगमम् । अथास्याः कोपस्य साध्यासाध्यविभागः कथं भूय इत्याह दोषस्य सहायानामालोच्य बलाबलं समेतानाम् । बुध्येत कोपमस्याः सुखसाध्यं कृच्छ्साध्यं वा ॥ २६ ॥ दाषस्यते । सुगमम् । अथ जाते कोपे उपायाः प्रयोक्तव्याः , क वा के प्रयोक्तव्याः, कथं वा प्रयोक्तव्या | साम प्रदानभेदौ प्रणतिरुपेक्षा प्रसङ्गविभृशः। अत्रैते षडुपाया दण्डस्त्विह हन्ति शृङ्गारम् ॥ २७ ॥ दासोऽस्मि पालनीयस्तवैव धीरा वहुक्षमा त्वं च । अहमेव दुर्जनोऽस्मिन्नित्यादि स्तुतिवचः साम ॥ २८ ॥ कालेऽलंकारादीन्दद्यादुद्दिश्य कारणं त्वन्यत् । बन्धुमहादिकमिति यत्तद्दानं साधु लुब्धासु ॥ २९ ॥ तस्या गृहीतवाक्यं परिजनमाराध्य दानसमानैः । तेन सदोषः कोपे तां वेधयतीत्ययं भेदः ॥ ३० ॥ दैन्येन पादपतनं प्रणतिरुपेक्षावधीरणं तस्याः । सहसात्युत्सवयांग भृशः कोपप्रसङ्गस्य ॥ ॥ ३१