पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अध्यायः काव्यालंकारः । १६ १ सर्वत इति । यत्र शत्रे भणितं परदारा न गन्तव्यास्तत्रैवोक्तं सर्वत एवात्मानं गो पायेदित्यस्माद्वचनानायकोऽप्यात्मरक्षार्थमत्र परदारेषु प्रवर्तत इति । प्रथमानुराग उक्तः । अथ मानमाह मानः स नायके यं विकारमायाति नायिंका सेष्य। उद्दिश्य नायिकान्तरसंबन्धसमुद्भवं दोषम् ॥ ११ ॥ मान इति सुगमम् ।। दोषस्यैव सारेतरविभागानाह गमन ज्यायान्दोषः प्रतियोषिति मध्यमस्तथालापः । आलोकनं कनीयान्मध्यो ज्यायान्वयं दृष्टः ॥ १६ ॥ गमनमिति । सुगमम् । दोषस्यैव लिङ्गान्याह - वसनादि नायकस्थं तदीयमाझीक्षतं च तस्याङ्गम् । दोषस्य तथा गमकं गोत्रस्खलनं सखीवचनम् ॥ १७ ॥ वसनादीति । सुगमम् ।। अथासौ दोषो ज्ञातस्तस्याः किं कुरुत इत्याह देशं कालं पात्रं प्रसङ्गमवगमकमेत्य सविशिष्टम् । जनयति कोपमसाध्यं सुखसाध्यं दुःखसाध्यं वा ॥ १८ ॥ देशमिति । सुगमं न वरम् । यदि ज्यायांसो देशकालपात्रप्रसङ्गा भवन्त्यसाध्यस्तदा कोपः स्यात् । अथ मध्यास्तदा कृच्साध्यः । अथ कनीयांसस्तदा सुखसाध्य इति । अथ क एते देशादयो ज्यायांस इत्याह-- ज्वलदुज्ज्वलप्रदीपं कुसुमोत्करधूपसुरभि वासगृहम् । सौधतलं च सचन्द्रिकमुद्यानं सुरभिकुसुमभरम् ॥ १९ ॥ इति देशा ज्यायांसो मधुरजनी स्मरमहोदयः कालः । पात्र तु नायकौ तौ ज्याया मध्याधमावुक्तौ ॥ २० ॥ ( युग्मम्) ज्वलदिति । इतीति । सुगमं न वरम् । ताविति पूर्वोक्तनायकौ । तत्रानुकूलदक्षिणा- दिश्चतुर्धा नायकः । आत्मान्यसर्वसक्ताश्च नायिकाः । तत्रानुकूलेन दक्षिणेन च नायकेन ज्यायस्या नायिकाया दोषः कृतोऽसाध्यः । शठेन धृष्टेन ज्यायस्याः । । च कृच्छूसाध्यः शठेन च ज्यायस्याः सुखसाध्य इत्यादि चिन्त्यम् । प्रसङ्ग ज्यायांसमाह सकलसखीपरिवृतता रत्यभिमुखता च तत्प्रशंसा च । जायेत नायिकायां यत्र ज्यायान्प्रसङ्गोऽसौ ॥ २१ ॥ २१