पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
काव्यमाला ।

सुगमम् न वरम् । तस्याः कथाशरीराणि भूयांसि । तेन विप्रलब्धाकलहान्तरिते अ- त्रान्तभृते । तल्लक्षणं चेदम् । यथा—‘यस्या दूतीं प्रियः प्रेक्ष्य दत्त्वा संकेतमेव वा । । नागतः कारणेनेह विप्रलब्धा तु स्मृता । ईष्यकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंतप्ता कलहान्तरिता मता ॥’ एवंविधानि संविधानकवशाद्भयांसि । कथाशरीराणि तस्या भवन्ति । ततश्च यदुक्तं भरतेन यथा—तत्र वासकसज्जा च विरहोत्कण्ठितापिं च । स्वाधीनभर्तृका चापि कलहान्तरिता तथा । । खण्डिता विप्र लब्धा च तथा प्रोषितभर्तृका । तथाभिसारिकां चैव इत्यर्थः नायिकाः स्मृताः ।। तद. चापि संगृहीतम् ।। स्वाधीनपतिप्रोषितपतिक्रयोर्लक्षणमाह यस्याः पतिरायत्तः क्रीडासु तया समम् रतौ मुदितः। सा स्यात् रतिमण्डनलालसासक्तं ॥ ४१ ॥ सा स्यात् प्रोषितपतिका यस्या देशान्तरं पतियति । नियतानियतावधिको यास्यति यात्येत्युपैष्यति च ॥४ ६ ॥

सुगमम्|| अध्याययमुपसंहरन्नन्यथाकरणनिषेधमाहु इति कथितमशेषं लक्षणं नायकाना- मनुगतसचिवानां हीनमध्योत्तमानाम् । अतिरसिकतयेदं नान्यथा जातु कुर्या- कविरविहतचेताः साधुकाव्यं विधित्सन् ॥ ४७ ॥ प्रकटार्थमेव ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचित टिप्पणसमेतो द्वादशऽध्यायः समाप्तः । त्रयोदशोऽध्यायः ।। संभोगः संगतयोरिति वचनात्संपर्क एव नायकयोः शृङ्गारो न वालोकनादीत्याश ह्याह अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिदमुदौ । आलोकनवचनादि स सर्वः संभोगशृङ्गारः ॥ १ ॥ अन्योन्यस्येति । नायकौ दंपती सचित्तौ तुल्यमानसौ यदालोकनवचनोद्यानविहार पुष्पोच्चयजलक्रीडामधुपानंताम्बूलसुरतादिकं परस्परसंबन्ध्यनुभवतः स सर्वः, न तु

  • )