पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ काव्यमाला । दशमोऽध्यायः । वास्तवौपम्यातिशयान्व्याख्यायाधुना क्रमप्राप्तं श्लेषं व्याचिख्यासुराह-- यत्रैकमनेकार्थेर्वाक्यं राचितं पदैरनेकस्मिन् । अथै कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ॥ १ ॥ यत्रेति । यत्रैकमेव वाक्यं रचितं सदनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थश्लेषो विज्ञेयः । नन्वेकं चेद्वाक्यं कथमनेकार्थनिश्चयं करोतीत्याह-अनेकारैः पदै रचितमिति कृत्वा । एकं वाक्यमित्येकप्रहणं शब्दश्लेषादस्य विशेषख्यापनार्थम् । तत्र हि ‘युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः’ (४।१) इत्युक्तम् । किं च तत्र शब्दानां श्लेषः, अत्र त्वर्थानामिति॥ अथायैव भेदानाह- अविशेषविरोधाधिकवक्रब्याजोक्त्यसंभवावयवाः । तत्वविरोधाभासाविति भेदास्तस्य शुद्धस्य ॥ २ ॥ अविशेषेति । तस्य श्लेषस्य शुद्धस्याविशेषादयो दश भेदाः । इतिशब्दः समास्यर्थं निर्देशार्थो वा । शुद्धग्रहणं परमतनिरासार्थम् । यतः कैश्चित् ‘तत्सहोक्त्युपमाहेतुनिर्दे शात्रिविधम्’ इति संकीर्णत्वेन त्रैविध्यमुक्तमिति शुद्धस्यैव सतऽस्य दश भेदाः । अलंका- रान्तरसंस्परेंऽनन्ता इत्यर्थः ।। यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमविशेषं लक्षयितुमाह अविशेषः श्लेषोऽसौ विज्ञेयो यत्र वाक्यमेकस्मात् । अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम् ॥ ३ ॥ अविशेष इति । असावविशेषश्लेषो ज्ञेयः, यत्र वाक्यमेकस्मात्प्रक्रान्तादन्यमर्थं गमयेत्। कीदृशम्। अविशिखैः समानैर्विशेषणैरुपेतं युक्तम् । यादृशानि चैकस्य विशेषणानि तादृ - ४ शान्येवापरस्यापीत्यर्थः । ननु प्रकृतानुपयफेयर्थान्तरमुन्मत्तवाक्यवदसंबद्धमवगतमपि क्को पंयुज्यते । सत्यम् । एतदेवास्यालंकारत्वम् । एवं हि सहृदयांवञ्जकत्वमस्य।' अत्र च महाकवय एव प्रमाणम् । शरदिन्दुसुन्दररुचं सुकुमारां सुरभिपरिमलामानिशम् । निदधाति नाल्पपुण्यः कण्ठे नवमालिकां कान्ताम् ॥ ४ ॥ शरदिति । नवा प्रत्यग्रा माला यस्यास्तां नवमालिकां कान्तां प्रियतमामल्पपुण्यः कण्ठे न करोतीति । एतत्प्रकृतं वाक्यं कान्तानवमालिकाशब्दयोरनेकार्थत्वादिदमर्थान् न्तरं गमयति । यथा-नवमालिकाख्यां सुमनोजातं कान्तां हृद्यमल्पपुण्यः कण्ठे न कु रुत इति । शरदिन्दुसुन्दररुचंमित्यादीन्यविशिष्टानि विशेषणानि ।। ५ के