पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । उपमेयस्य क्रियते तदवयवानां च साकमुपमानैः । उभयेषां निरवयवैर्विज्ञेयं तदिति संकीर्णम् ॥ ५२ ॥ उपमेयस्येति । उपमेयस्योपमेयावयवानां च सहजाहायभयरूपाणामुपमानैरुभयेषामपि निरवयवैः सह यङ्पणं क्रियते तत्संकीर्ण नाम ज्ञेयम् । एवं च सहजाद्यवयवभेदजत्वा धाि भवति । उभयेषामित्यनेनोपमेयस्तदवयवाश्च निर्दिश्यन्ते । लक्ष्मीस्त्वं मुखमिन्दुर्नयने नीलोत्पले करौ कमले । केशाः केकिकलापो दशना अवि कुन्दकलिकास्ते ॥ ९३ ॥ लक्ष्मीरिति । नायिकात्रोपमेया । तदवयवाश्च सहजा मुखादयः । लक्ष्मीचन्द्रप्रभृ तीनि चोभयेषामुपमानानि निरवयवानि । नहि लक्ष्म्याश्चन्द्रादयोऽवयवाः । उपमेयं सा- वयवमुपमानेषु विपर्यय इति संकीर्णत्वमिति । अथाद्यवयवोदाहरणमाह- मुतनु सरो गगनमिदं हंसरवो मदनचापनिर्घोषः । कुमुदवनं हरहसितं दृशः सुदृशाम् ॥ ९४ ॥ कुवलयजाल मुतन्विति । हे सुतनुइदं सरः शरदि निर्मलत्वाद्विस्तीर्णत्वाच्च गगनसदृशमित्यर्थः । अत्र च गगनकामधनुर्वनिहरहसिततरुणीदृशो निरवयवोपमानानि । उपमेयं सरः । त दत्रयवा हंसरवकुमुदवनकुवलयजालान्याहार्याणि विवक्षितानीति । "वयवमाह इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । खङ्गः कृतान्तरसना जिह्वा च सरस्वती राजन् ॥ १९ ॥ इन्द्र इति । अत्र राजोपमेयः । तदवयवाश्च बाहुखङ्गजिह्वाः सहजाहार्याः । इन्द्रजयन् लक्ष्मीद्वारतोरणस्तम्भदोनि निरवयवोपमानानि । एतेषु वाक्यभेद एवेति ।। समस्तविषयरूपकं निरूप्येदानीमेकदेशिरूपकमाह उक्तं समस्तविषकं लक्षणमनयोस्तथैकदेशदम् । केसरदशनैः स्मितं उक्तमिति । अनयोर्वाक्यसमासरूपकयोर्यत्समस्तविषयं लक्षणं तत्सावयवं रूपयद्भिरु- चक्रुः ॥ १६ ॥ क्तम् । तत्रैकदेशीदमार्योत्तरार्धेनोदाह्रियते । यथा–कमलेत्यादि । अत्रावयवानामेव क- मलकेसराणां मुखदशनै रूषणं कृतम्, न तु पद्मिन्या अङ्गनयेत्येकदेशित्वमिति । अन्य- दषि रूपकं संगतं नाम विद्यते । यत्र संमतार्थतया रूप्यरूपकभावः। यथा कालिदा- खस्य--'रावणवग्रहक्लान्तमिति वागमृतेन स: । अमिथुष्य मरुसस्यं कृष्णमेघस्तिरो