पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः] काव्यालंकारः। १०९ क्षणवैपरीत्यम् । रूपकरशनाय हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति । अन्य- परम्परितमिदं वक्ष्यमाणलक्षणकम् । तदेव लक्षणमाह-यस्मिन्नित्यादि । यत्र द्वाभ्यामु पमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमानं समस्यते । यत्र हि वै उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते । यथा-रजनिपुरं भ्रिरोभ्रतिलकश्चन्द्र इति । एतेषामुदाहरणानि चत्वारि यथाक्रममाह कः पूरयेदशेषान्कामानुपशमितसकलसंतापः । अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन् ॥ ४८ ॥ क इति । अत्र राजा शाखादिभिरवयवैर्विना कल्पद्रुमेण रूपितः । एतच्छुद्धं वाक्य रूपकम्। समासरूपकं तु यथा—नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि । त्वत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण’ ॥ । कुसुमायुधपरमास्त्रं लावण्यमहोदधिगृणनिधानम् । आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम् ॥ ४९ ॥ कुसुमेति । अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगाकुसुमायुधपरमास्त्रादिभि रनेकैरुपमानैरेकैकधर्मयुक्तै रूपिता । अत्र वाक्यमेव । रशनापरम्परितयोः समास एव संभव इति ।। रशनारूपकमाह- किसलयकरैर्लतानां करकमलैः कामिनां जगज्जयति । नलिनीनां कमलमुवैमुखेन्दुभियोंषितां मदनः ॥ १० ॥ किसलयकरैरिति । अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीना मुपमेय इति ।। परम्परितमाह स्मरशबरचापयष्टिर्जयति जनानन्दजलधिशशिलेखा । लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम् ॥ ११ ॥ स्मरेति । अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शवरचापयष्टिभ्यामन्यस्य नायि कालक्षणस्य पदार्थस्यार्थे समस्यते । स्मरस्य शबर उपमानम्, नायिकायाश्चपयष्टिः। स्मर , एवं एव शषरस्तस्य नायिका चापयष्टिः। यथा शबरश्रपयट्या हरिणादीन्विध्यति स्मरस्तया कामिन इत्यर्थः । एवमन्यत्रापि योज्यम् ।