पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ अध्यायः] काव्यालंकारः । १ ०१ सुश्लिष्टमुदाहरणमाह- आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु । इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसरा ॥ १२ ॥ आनन्देति । हे करिकरोरु, त्वमिव त्वं सरसि गच्छसोत्याद्यन्वयः ।। पञ्चमीमाह— सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम् । तावद्भिस्तादृग्भिः स्यादुपमानं तथा यत्र ॥ १३ ॥ सेति । यैर्याडरैर्यत्संख्यैश्च विशेषणैर्युक्तमुपमेयम्, तादृग्भिरेव तत्संख्यैश्चोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या । कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति । विशेषणैरित्यतन्त्रम् । तेनैकस्य द्वयोश्च संग्रहः । किं तु बहुभिरौज्ज्वल्यं भवति । उदाहरणम् मुखमापूर्णकपोलं मृगमदलिखितार्धपत्रलेखं ते । भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव ॥ १४ ॥ मुखमिति । अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेष णद्वयोपेतम् । शशिबिम्बमुपमानमपि स्फुरत्षोडशकलं स्फुटकलङ् चेति । षष्ठीमाह— अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत् । संभाव्य सयद्यर्थं या क्रियते सोपमोत्पाद्या ॥ १९ ॥ अनुपममिति । उत्पाद्यत इत्युत्पाद्य। उत्पाद्यानामोपमा सा, या क्रियते । किं कृत्वा । उपमानमुपमानविशेषणं च संभाव्य संभवि कृत्वा । कुतः । अनुपममुपमानविकलमेतद्व स्विति कारणात्। कीदृशम् । अपमानसद विद्यमानम् । असतः कथं संभव इत्याह—सयर द्यर्थं यदिचेदादिशब्दसहितमित्यर्थः । उपलक्षणं च सयद्यर्थशब्दः। यस्मादभूतपूवसंभ वादिप्रयोगेऽपि भवति । यथा माघस्य-मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्दीयं सः । भेजेऽभितःपातुकसिद्ध सिन्धोरभूतपूर्वो रुचमम्बुराशेः ।' इत्यादि । । उदाहरणम् कुमुददलदीधितीनां त्वक्संभूय च्यवेत यदि ताभ्यः । इदमुपमीयेत तयां सुतनोरस्याः स्तनावरणम् ॥ १६ ॥ कुमुदेति । अत्र कुमुददलदीधितित्वगुपमानम्, तद्विशेषणं च्यवनं च द्वयमपि सयद्यर्थं संभावितम् । तथा-‘सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम् । श्र माम्बुबिन्दूकरराजितं ततो मुखं रतावियुपमीयते प्रिये ॥’ ‘ततो मुखं तेन तवोपमीयते