पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

०० काव्यमाला | चिपदाप्रयोगेऽपि गम्यते । नन्वप्रयुक्तस्य पदस्य कथमर्थो गम्यत इत्याह---इवादिप्रयो गसामर्थ्यात् । इवादयो हि कस्य सादृश्यप्रतिपादनाय प्रयुज्यन्ते । यदि च प्रयुक्तैरपि तैरसौ न गम्यते तदानर्थकस्तेषां प्रयोगः स्यात् । यद्येवमुच्छेद एव सामान्यपदप्रयो - गस्येत्याह -- सुप्रसिद्धमिति । लोकप्रसिद्धमेव गम्यते नान्यदिति ॥ उदाहरणमाह-- शशिमण्डलमिव वदनं मृणालमिव भुजलतायुगलमेतत् । करिकुम्भाविव च कुचौ रम्भागर्भाविवोरू ते ॥ ८ ॥ शशीति । अत्र यथाक्रमं चारुत्वकोमलत्वोत्तुङ्गत्वगौरत्वान्यनुक्तान्यपि प्रसिद्धत्वा त्प्रतीयन्ते || तृतीयामाह-- वस्त्वन्तरमस्त्यनयोर्न सममिति परस्परस्य यत्र भवेत् । उभयोरुपमानत्वं सक्रममुभयोपमा सान्या ॥ ९ ॥ वस्त्वन्तरमिति । अनयोर्वस्तुनोर्वस्त्वन्तरं समं तुल्यं नास्तीत्यतः कारणाद्यस्यामुभयो रुपमानोपमेययोः क्रमेण परस्परमुपमानत्वं स्यात्सोभयोपमा । अन्या पूर्वविलक्षणा । इयमपि सामान्यस्य प्रयोगाप्रयोगाभ्यां द्विविधा । प्रयोगोदाहरणं स्वयमाह -- शशिमण्डलमिव विमलं वदनं ते मुखमिवेन्दुबिम्बमपि । कुमुदमिव स्मितमेतत्स्मितमिव कुमुदं च धवलमिदम् ॥ १० ॥ शशिमण्डलमिति । अप्रयोगे तु यथा—‘खमिव जलं जलमिव खं हंस इव शशी श शाङ्क इव हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि' ।। चतुर्थमाह -- सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य स्वयमेव भवेदुपमानं चोपमेयं च ॥ ११ ॥ सेति । न विद्यतेऽन्वयो वस्त्वन्तरानुगमो यस्यामित्यनन्वयसंज्ञा सोपमा, यस्यामेकमेव वस्तु स्वयमेवोपमानमुपमेयं चात्मन एव भवेत् । कस्मात्, अनन्यसदृशमिति हेतोः । ननु यद्यन्यस्यात्रानुगमाभावस्तत्कथमौपम्यलक्षणमुपमालक्षणं वा घटते । नैष दोषः । यतोऽनन्यसमत्वं लक्षणं वस्तुनः सम्यक्स्वरूपं च यदा युगपद्विवक्षति वक्ता तदा सम्यक्त्वरूपप्रतिपादनं वस्त्वन्तराभिधानं विना न घटते । तदभिधाने चानन्यसमत्वं दुर्घट- मिति कृत्वैकमेव वस्तूपमानोपमेयरूपतया विभिद्य वक्ति । अतः सामान्यमौपम्यलक्षण मुपमालक्षणं चास्ति । वस्त्वन्तरानन्वयश्चेत्यनन्वयोपमालक्षणम् ॥