एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
गीतगोविन्द ।
सिन्धमधुसूदनः ।
यमुनातीरवानीरनिकुत्रे मन्दमास्थितं ।
प्राड प्रेमभरोद्धान्तं माधवं राधिकासखी ॥१॥
कर्णाटरागेकतालीताखाभ्यां गीयते ॥
निन्दति चन्दनमिन्दु किरणमनुविन्दति खेदमधीरं ।
व्याखनिलयमिलनेन गरलमिव कलयति मलयसमीरं ॥
सा विरहे तव दीना ।
माधव मनसिजविशिखभयादिव भावनया त्वयि
सीना | भुं ॥ २ ॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालं ।
स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं ॥
सा विरहे० ॥ ३ ॥
कुसुमविशिखशरतल्पमनस्पविलासकलाकमनीयं ।
व्रतमिव तब परिरम्भसुखाय करोति कुसुमस्यनीयं ॥
सा विरहे० ॥४॥
वइति च बलितविलोचनअलधरमाननकमलमुदारं ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं ॥
सा विरहे० ॥ ५ ॥
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतं ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं ॥
सा विरहे० ॥ ६ ॥
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहं ।