पृष्ठम्:काव्यसंग्रहः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्द । सिन्धमधुसूदनः । यमुनातीरवानीरनिकुत्रे मन्दमास्थितं । प्राड प्रेमभरोद्धान्तं माधवं राधिकासखी ॥१॥ कर्णाटरागेकतालीताखाभ्यां गीयते ॥ निन्दति चन्दनमिन्दु किरणमनुविन्दति खेदमधीरं । व्याखनिलयमिलनेन गरलमिव कलयति मलयसमीरं ॥ सा विरहे तव दीना । माधव मनसिजविशिखभयादिव भावनया त्वयि सीना | भुं ॥ २ ॥ अविरलनिपतितमदनशरादिव भवदवनाय विशालं । स्वहृदयमर्मणि वर्म करोति सजलनलिनीदलजालं ॥ सा विरहे० ॥ ३ ॥ कुसुमविशिखशरतल्पमनस्पविलासकलाकमनीयं । व्रतमिव तब परिरम्भसुखाय करोति कुसुमस्यनीयं ॥ सा विरहे० ॥४॥ वइति च बलितविलोचनअलधरमाननकमलमुदारं । विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारं ॥ सा विरहे० ॥ ५ ॥ विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतं । प्रणमति मकरमधो विनिधाय करे च शरं नवचूतं ॥ सा विरहे० ॥ ६ ॥ प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहं । ig: red by Google