एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
गीतगोविन्द ।
चिन्तयामि संदाननं कुटिलभु कोपभरेल ।
शोखपद्ममिवोपरिभ्रमताकुलं भ्रमरेश |
हरि हरि० ॥ ५ ॥
तामहं हृदि सङ्गतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं तथा विलयामि ॥
हरि हरि० ॥ ६ ॥
तन्धि खिन्नमसूयया हृदयं तवाकलयामि ।
तन वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥
हरि हरि० ॥ ७॥
दृश्यसे पुरतो गतागतमेव मे विधासि ।
किं पुरेव ससंभ्रमं परिरम्भं न ददासि ॥
हरि इरि० ॥ ८ ॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥
हरि हरि० ॥ ९॥
वर्णित जयदेवकेन हरेरिदं प्रवणेन ।
किन्दु विश्वसमुद्रसम्भवरोहिणीरमखेन ।
हरि हरि० ॥ १० ॥
हृदि विषलताहारो नायं भुजङ्गमनायकः
कुवलयदलश्रेणी कण्ठे न सागरलद्युतिः ।
मलयजरजो नेद् भम प्रियारहिते मयि
प्रहर न हरभ्रान्त्यानङ्ग कुधा किमु धावसि ॥ ११ ॥