पृष्ठम्:काव्यसंग्रहः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋतुसंहार | काचिद्धिभूषयति दर्पण सक्तहस्ता बालातपेषु वनिता वदनारविन्दं । दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभित्रमपकृष्य निरीक्षते च ॥ १४ ॥ अन्याः प्रकामसुरतश्रमखिनदेश नक्तंप्रजागरविपाटलनेषपद्माः । शय्यान्तदेशलुलिताकुलकेशपाशाः निद्रां प्रयान्ति मृदुसूर्यकराभितप्ताः ॥ १५ ॥ निर्माल्यदाम परिभुक्तमनोशगन्धं मूर्भोपनीय घननीलशिरोरुहान्ताः । पीनोन्नतस्तनभरानतगात्रयच्चः कुर्वन्ति केशरचणामपरास्तरुण्यः ॥ १६ ॥ अन्या प्रियेण परिभुक्तमवेक्ष्य गाचं हर्षान्विता विरचिताधरगण्डशोभा । रक्तांशकं परिधाति नवं नताकी व्यालम्बिनी विलुलितालककुश्विताक्षी ॥१७॥ अन्याविरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगाषयथ्यः । संपीड्यमानविपुलोरुपयोधरात अभ्यञ्जनं विद्धति प्रमदाः सुशोभाः ॥ १८ ॥ बहुगुणरमणीयो योषितां चित्तहारी परिनतबहुशालिव्याकुलग्रामसीमः । ५८ Digitzed by . Google