पृष्ठम्:काव्यसंग्रहः.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८७

यतिपञ्चक ।

->*$०€

वेदान्तवावयेषु सदारमन्ती भिक्षात्नमाचेण च तुष्टिमन्तः । विशोकमन्तःकरणे रमन्तः

कौपीनवन्तः खलु भाग्यवन्तः॥ १ ॥

मूलं तरोः केवलमाश्रयन्तः पाणिद्दयं भोक्तुममन्त्रयन्तः । कत्थामिव श्रीमपि कुत्सयन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥ २ ॥ देहादिभावं परिवर्तयन्त श्रात्मानमात्मन्यवलोकयन्तः । नान्तं न मध्यं न वहिः स्मरन्तः

कौपीनवन्तः खलु भाग्यवन्तः ॥ ३ ॥ स्वानन्दभावे परितुष्टिमन्तः

सुशान्तसर्वेन्द्रियतुष्टिमन्तः । श्रहर्निशं ब्रह्मसुखे रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥