पृष्ठम्:काव्यसंग्रहः.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महापद्यं । ४८३ अस्थिवधिवचैव शंखवडकवत्तथा । राजन् तव यशो भाति पुनः संन्यासिदन्तवत् ॥ १ ॥ कालिदास इमं श्लोकं स्वकवित्वस्य गोपकं । लिखित्वा प्रददौ पत्रं कवये शङ्कराय वै ॥ २ ॥ पठित्वा शङ्करः श्लोकं प्रहसन् कौतुकाय तत् । पचं करे समादाय सानन्दस्वरया तदा ॥ ३॥ कालिदासेन सहितो भोजराजसभां ययौ । अथ दृष्ट्वा स राजानमाशिषं प्रजगाद इ ॥ ४ ॥ राजन् अभ्युदयोस्तु शङ्करकवे किं पचिकायामिदं पद्मं कस्य तवैव कीर्तिरचना तत् पद्यतां पठते । किन्त्यासामरविन्दसुन्दरदृशां द्राक् चामरान्दोलनाद् उद्देल्लद्भुजवलीकङ्कणझनत्कारः क्षणं वार्यतां ॥ ५ ॥ महाराज श्रीमन् जगति यशसा ते धवलिते पयः पारावारंः परमपुरुषोयं मृगयते । कपर्दो कैलाशं करिवरमथोयं कुलिशभृत् कलानाथं राहुः कमलभवनोहंसमधुना ॥ ६ ॥ Digized by Google