पृष्ठम्:काव्यसंग्रहः.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काशीस्तोचं | ▾ सत्यज्ञानानन्दतीर्थं प्राप्तोहं यत्प्रसादतः । तं गुरुं परमं हंसं विश्वेश्वरमजं भजे ॥ १ ॥ विश्वेशं माधवं ढुंढिं दण्डपाणिञ्च भैरवं । वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकां ॥ २ अखण्डः सच्चिदानन्दः शिवो देवो महेश्वरः । तस्य तां परमां शक्तिं काशीं स्तौमि सदुक्तिभिः ॥ ३ ॥ श्यामां षोडशवार्षिक सकरुणां मूर्तिं दधानां वरां इस्ताभ्यामभयं च विश्वजननीं विद्येति या गीयते । या दृष्टा स्मरणं गतापि सततं या कीर्तिता संस्तुता या स्पृष्टा प्रणता श्रुता प्रकुरुते नृणां परं मङ्गलं ॥ ४ ॥ भूमिष्ठापि न याच भूस्त्रिदिवतोप्यु चैरभवस्थापि या या बढा भुविमुक्तिदा स्युरमृतं यस्यां मृता जन्तवः । या नित्पं चिञगत्पवित्रतटिनीतीरे सुरैः सेव्यते सा काशीचिपुरारिराजनगरी पायादपायाज्जगत् ॥ ५॥ पूर्वजन्मशतकोटिसञ्चितं पापराशिमतुलं विनाशयेत् । by Google ४७५ Digi: zed by