पृष्ठम्:काव्यसंग्रहः.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिकर्ण्यष्टकं । बढच पाणियुगलं शुभपश्चिमास्वं सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ १० ॥ दानावगाइसुरपूजनतर्पणादि यस्यामनन्तफलदं भवति प्रसंगात् । भक्त्या कृतं यदि सराव जगत्पुनाति सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ ११ स्वर्गस्तुणं भवति चीरधरोपि राजा मृत्युः सखा सुखहरोपि शवः शिवः स्यात् । पातोपि यण सुरसंमत उत्तमाद्या सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ १२ ॥ सुप्तोपि योगिसमतां समुपैति यन मनः स्मरेद्यदि शिवं सतु कालकालः । यद्ध्यानतोप्यभयमेति च दूरवासी सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ १३ ॥ यत्सक्विायुरपि दूरगतः सुसूक्ष्मः पातालगं सुरगतं विधिगं करोति । जन्तून् पुनाति सकलानपि गां गता या सा मे सदा शिवकरी मणिकर्णिकास्तु ॥ १४ ॥ संसारचिन्तामणिरण यस्मात् तत्तारकं सज्जनकर्णिकायां । शिवोऽभिधते सहसान्तकाले तहीयतेऽसौ मणिकर्णिकेति ॥ १५ ॥ by Google zed by ४७३