एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यसङ्ग्रहः।
नव रत्नानि ।
धन्वन्तरि क्षपणकामरसिंह शंकु
बेतालभट्ट घटकर्पर कालिदासाः ।
स्थातो बराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ।
नवरत्नं ।
मित्रमर्थी तथा नीतिर्धर्म्म कार्पण्य मूर्खकाः ।
स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदं क्रमात् ॥
मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं
कार्येण द्विजमादरेण युवतीं प्रेम्ना समैर्बान्धवान् ।
अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं
विद्याभीरसिकं रसेन सकलं शीलेन कुर्य्याद्वशं ॥ १ ॥
अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं
लुब्धोऽकीर्त्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिं ।
निःस्वो वंचनमुन्मना विकलतां शोकाकुलः संशयं
दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥ २ ॥