पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

वामं वामाङ्कगाया वदनसरसिजव्यालगगद्वल्लभाया
ध्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०॥

यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्सिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥ ३१ ॥

स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्ती
धन्यां कन्यां खरांशोः शिरसि वहति किंन्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२॥

शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविगलत्सौरभाकृष्टभङ्गम् ।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
संघं नः संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३ ।।

वक्राकारः कलङ्की जडतनुरहमप्यजिसेवानुभावा-
दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४ ॥

कान्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृति पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारे
श्वेतच्छत्राख्यशीतपुतिरपहरतादापदस्तापदा नः ॥ ३५ ॥

१. 'भूयोऽतिमोदात्' इति पाठः. २. 'द्युतितिमिर' इति पाठः, ४. 'नताना' इति पाठः. ५. कङ्कटीकः शिवः,