३ विचारः] दर्पदलनम् ।
शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं
मात्सर्वेण मनीषिणां प्रतनुते पारुप्यदोषं गिरा ।
तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां
यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ।। १३ ।।
ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः
कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् ।
तेषां रोषकपायितोदरदृशां द्वेषोष्णनिःश्वासिनां
दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥ १४ ॥
शोच्यतां यात्यशीलेन विद्वेषणापवित्रताम् ।
दर्पशापहता विद्या नश्यत्येव सहायुषा ॥ १५॥
तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् ।
पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ॥ १६ ॥
पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ ।
स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥ १७ ॥
भरद्वाजस्य पुत्रोऽभूद्यवक्रीताभिधः सुताः ।
भवन्त्यविद्याः प्रायेण पितृप्रणयलालिताः ॥१८॥
स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ ।
पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ॥ १९ ॥
स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् ।
चचार निश्चलतनुस्तीव्रं विद्याप्तये तपः ॥ २०॥
तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः ।
उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ।। २१ ।।
अनधीता गुरुमुखात्कथं विद्याधिगम्यते ।
अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥ २२ ॥
अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् !
यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ।। २३ ।।
१. 'कीर्ति बिमला' क. २. 'तस्याः' क-ख-ग, ३. "गुणज्ञानातू' ग.