पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ विचारः]

बालस्तृणे च कनके च समानदृष्टि-
रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः ।
वित्तेन कोषपरिपोषसहेन तस्मि-
न्काले विवेकविकलो वद किं करोति ॥ ६०॥

प्राणाधिकस्य सुहृदस्तरुणीजनस्य
पुत्रस्य वा गुणनिधेः सहसा वियोगे ।
शोकेन शोचति यदा विवशः शरीरी
रत्नाचलैरपि तदा वद किं करोति ।। ६१ ॥

नार्थं शृणोति न पुनः स्थितिमीहते वा
स्पर्शं न वेत्ति न रसं न तथाधिवासम् ।
वृद्धः प्रयाति पवनेन यदा जडत्वं
भोगैर्धनेन च तदा वद किं करोति ॥ ६२ ।।

रोगार्दितः स्पृशति नैव दृशापि भोज्यं
तीव्रव्यथः स्पृहयते मरणाय जन्तुः ।
सर्वौषधेषु विफलेषु यदा विरौति
धान्यैर्धनेन च तदा वद किं करोति ॥ ६३ !!

निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः
पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः ।
भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः
पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ।। ६४ ॥

अलंकृतः काञ्चनकोटिमूल्यैर्महार्हररत्नैर्गजवाजिवाहैः ।
निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥६५॥

निश्चेतनः काष्ठसमानकायस्त्यक्तः क्षणात्पुत्रकलत्रमित्रैः ।
शुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥६६॥

१. 'विषयेषु समान' क. २. 'कथादितः' ख. ३. 'प्रपतनावष्टब्ध' ख. ४. "वि.

वशः' क, ५. 'विवशः ख. ६. यत्नातु' क. ८५००