पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सुमोल्लोचस्यूतायतसितसहस्रच्छदलता-
सहस्रं संक्रान्तं मणिमयभवन्मण्डपभुवि ।
सहस्रं शेषाणामिव धरणिमूलोन्नतशिरः-
सहस्राणां स्तोतुं तव पदमिदं कौतुकनिधे ॥ १०१ ॥

अहो पूर्वापूर्वामरगुरुयुगं तेऽङ्घ्रियुगलं
न शक्नोति स्तोतुं कलियुगजनेः कात्र गणना ।
प्रलापं श्रुत्वा मे तदपि नखकोटीन्दुशकल-
प्रभाजालव्याजाद्धसति मुदितं वत्सलमिदम् ।। १०२ ।।

मनोभूवामाक्षीस्मयहरमृगाक्षीपरिषदो
दृशः सक्ता नक्तंदिवमवनिजे त्वत्प्रियदृशोः ।
तैयोस्तावद्धावस्तव नयनयोस्त्वन्नयनयो-
स्तवैवाङ्घ्र्योस्तस्मान्मम हृदयमत्रैव रमते ॥ १०३ ।।

चिदानन्दां मन्दस्मितदमितराकेन्दुशतकां
मुकुन्दाङ्के लग्नां घुसृणरसमग्नाम्बरधराम् ।
स्फुरन्नासामुक्तामुरसि नवहारेण मधुरां
तडित्काञ्चीं काञ्चित्स्मरत चतुराश्चारुचरणाम् ॥ १०४ ॥

दुकूलेनाचूडामणि पिहितमानूपुरमहि
खरूपं तेऽनन्ते चरणयुगलं मुक्तमतुलम् ।
नखज्योतिःस्रोतः सुरमुकुटरत्नांशुनिकरा-
त्परावृत्तं रत्नांशुकमिव विधत्ते पुनरिदम् ॥१०५ ॥

शरज्योत्स्नाजालोज्वलमपि दुकूलं विजयते
यदङ्गानां सङ्गात्सपदि रजनीरञ्जितमपि ।
पुनर्यस्या हास्यैरमृतसरसीकेन सदृशं
श्चियः पश्याम्यस्याश्चरणकिरणैर्विश्वमरुणम् ॥ १०६ ।।