पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

प्रणामं कुर्वाणः पदकमलयोस्ते विमलयो-
स्त्रयाणां त्राणाय प्रभवति मनोजाम्ब जगताम् ।
प्रवीणे तत्राणे नमयति शिरो यः कृतिवरः
स कां सिद्धिं विद्यादिह बहुतरां मुह्यति मनः ॥ ६५ ॥

पदखेदामोदप्रसरणसमाहूतमधुपे
विमुक्ते मञ्चस्याक्रमणसमये भूमिसुतया ।
पदत्रे सुत्रामद्रु मकिसलयप्रश्लथनव-
प्रसूने केनेमे शिरसि सरसं न प्रणिहिते ॥ ६६ ॥

न साक्षादस्प्राक्षीन्मृगरिपुमृगाक्षीपदयुगं
तदप्येतां चिन्तां वरमकृत चिन्तामणिकुलम् ।
विना याञ्चां वाचामविषयफलं दातुमुचिते
यदासक्तं नक्तंदिवमवनिजापत्रयुगले ॥ ६७ ॥

खशोणिम्ना निम्नानमरमणिमौलीन्विदधती
सुखोद्योते हेतू बत नयनयोरभ्युदयदे।
जगद्वन्द्ये संध्ये इव सकुरुविन्दे त्रिजगतः
सवित्रि त्वत्पत्रे परमनुसृते तारकवरैः ॥ ६८ ॥

अमी नूनं चामीकरतनुगुणैः पूर्णनिपुणैः
प्रणीताः पत्राणे तव नवतराः कल्पतरवः ।
प्रयच्छन्तो वाञ्छोपरि विदधते लाञ्छनधुरं
पुराणं गीर्वाणद्रुमगणमलिन्नातकपटात् ॥ ६९ ॥

मृशामः सुत्रामद्युमणिवरुणास्त्वत्पदवनीं
समर्थाः स्प्रष्टुं न व्यवसितपुमर्थास्तदपि ते ।
वसन्त्योतप्रोता यदिह मिथिलाधीशतनये
शचीशग्रावाणस्तरणिमणयो मौक्तिकगणाः ॥ ७० ॥

१, कल्पवृक्षपुष्पाचिते. २. मृगो मारीचस्तद्रिपू रामः. ३. पादत्राणयुग्मे. ४. कल- "भारग्रहितम्. ५. पादत्राणिकाम.