पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

जानकीचरणचामरम् ।

कथं तन्माणिक्यप्रमित(तिम)मिति शक्यं कथयितुं
किमारोपस्थानी द्युमणिरपि यस्यैककिरणे ॥ ५८ ॥

ससंकोचाः सिञ्चन्त्यमरललनाः कुङ्कुमरसै-
नमच्छंभुं संभावयति च कुसुम्भाक्तसिचयैः ।
पिधत्ते या पिष्टातकपटलतो दिङ्मुखमियं
श्रियं दिश्याल्लक्ष्मीचरणरुहलौहित्यलहरी ।। ५९ ॥

विरिञ्चाद्यैरर्च्ये तव चरणयोरर्चनकृते
शुभैः पुष्पैः शोभाजुषि मरकताकाशचषके ।
चकास्तीदं चन्द्रोज्ज्वलनमखिलामोदजनकं
ससंकोचं नो चेत्कथममुकयोः स्पर्धि कमलम् ॥ ६० ॥

कुरुक्षेत्रं क्षेत्रं कुरु चरणयोः सच्चरणयोः
सरखत्या कान्त्याङ्गुलिवलयशक्रोपलरुचा ।
समुद्यत्कालिन्द्याजनजननि वृन्दावनमिदं
मखाग्रप्रत्यग्रद्युतिगगनधुन्या सुखवनम् ॥ ६१ ॥

दरोन्मीलत्कल्पद्रुमकुसुमसौरभ्यलहरी-
धुरीणैर्धम्मिल्लैः सुरयुवतिभिर्धूतरजसी ।
त्रिलोकीनिःशोकीकरणनिपुणे रामरमणी-
पदत्राणे प्राणेशितुरिव रतेर्नौमि शरधी ॥ ६२ ॥

स्फुरामि द्युखामिप्रमुखहृदयान्तर्ध्रुवमहं
मदन्तः सीतायाः स्फुरति वसुमत्याः पदमिदम् ।
अमुष्यान्तः किं किं न सुखमिति किङ्किण्यनुरण-
त्कृतैरङ्घ्रित्राणं भणति धरिणीनन्दिनि तव ॥ ६३ ॥

वनं म्लानीकर्तुं विमृशति हिमानी वनरुहा-
मियं सेना तेषां खलु मधुलिहामम्बुजधिया ।
झटित्यावां धावेदिति किमु पदाभ्यां तव धृते
पदावन्यावन्यादृशमणिधरे प्रेयसि हरेः ॥ ६४॥

१. चन्द्रशब्दः कर्पूरवासकोऽपि. २. आनन्दवनं वाराणसीरूपम्. ३. उपानतू. $