पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

जानकीचरणचामरम् ।


मरालानां बालाननुसरति किं तावकपदा-
ङ्गूलीनां मालेयं गतिजितमरालेऽब्जनिलये ॥ ३५॥

इयं लाक्षा साक्षात्कृतसुकृतकल्पद्रुमफला
शिलापट्टे पिष्टा ज्वलदनलकल्लोलितजले ।
परिक्षिप्ता व्यक्तीभवदतुलरक्तिः श्रुतिशिरो-
विमृश्यं सौभाग्येश्वरि तव पदं रञ्जयति या ॥ ३६ ॥

सखीपक्ष्मप्रक्षालितभवदलक्ताङ्घ्रिसलिलं
दयाक्लिन्ने क्लिन्नां विरचयति यां कामपि महीम् ।
अहं तस्याः पांसुः कथमहह भूयासमथवा
कुतो न स्यां मन्त्रैर्यदि कुलिशपत्रैश्च दलनम् ।। ३७ ॥

सुरैर्मुक्ता मुक्तास्तवकनिकरास्त्वच्चरणयोः
पुरः सोमस्तोमा इव सपदि तत्तद्भुवनतः ।
उपेतास्त्वामेते शरणममले त्वत्पदसुहृ-
त्सरोजानामोजःक्षपणकृतमागः क्षपयितुम् ॥ ३८ ॥

किमेतौ लौहित्याम्बुघिसमुदितौ विद्रुमतरू
प्रवालावाहोखिल्लवणिमरसालस्य सरसौ ।
प्रसत्तिखर्वापीकमलमुकुलौ किंस्विदतुलौ
हरेराह्लादिन्याः किमुत चरणौ सर्वकरुणौ ॥ ३९ ॥

यदग्रे प्रत्यग्रं जलजमजतामेव रसना-
प्रसिद्धः संनद्धो नवकिसलयः पल्लवतया।
यदस्यैतस्यैवंरसमपि तवैकापि न तुला
तदप्येतल्लप्यं कथमपि तुलाकोटिकलितम् ॥ ४०॥

स्पृशन्ती यां शक्रोपलशकलचक्रांशुलहरी-
सवर्णेयं वेणी कलयति वलच्छैवलरुचिम् ।

१. गच्छताम्. बहुवारै पक्ष्यतामिति यावत् . २. उपमानीभवितुमुद्यतः, ३. पद:

पादस्य लवतया लेशत्वेन रसनाप्रसिद्धो जिह्वारूढः ४. एवंरसमेवंविधम्. ५. 'वेणी दीर्घा प्रशस्यते' इत्युक्तेः पाणि स्पृशन्तीत्युक्तम्।