पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धम् ॥२१॥ जातं जातं गतमपि गतं बाल्यतो लौल्यतो वा नेतः स्थेयं क्षणमपि गृहे मुञ्चतः को मुहूर्तः । इत्यत्यन्तव्यवसितधियो निःसरन्तोऽपि गेहा- दावर्तन्ते झटिति रुदतां सान्त्वहेतोः शिशूनाम् ॥ २२ ॥ नैव ब्रूमो वयमतिथयोऽभ्यागता बन्धुवर्गा दीनानाथाः सुहृद् इति ये तेषु कार्या दयेति । यं त्वं पोष्यं मनसि कुरुषे नित्यमात्मानमेकं जन्मन्यस्मिन्निव बिभृहि तं सर्वदेत्युल्लपामः ॥ २३ ॥ को नु व्यासः क इव स मनुः को न्वसौ याज्ञवल्क्यो यैरुद्रुष्टं हितमसकृदस्मासु पित्रेव पुत्रे ।। पश्यामस्तान्निरुपविकृपासागराल्लोकबन्धू- न्पश्यामोऽस्मान्निरवधितमःक्ष्माधरान्ब्रह्मबन्धून् ।। २४ ।। यत्तामिस्रे नरककुहरे यद्वाहिश्चकवाला- उत्पाताले यदपि धरणौ वार्षिकीषु क्षपालु । रूढं गाढं तम इति समस्तं च तच्चिन्त्यमानं नामाकान्तःकरणतमसो दासभावेऽपि योग्यम् ॥ २५ ॥ सर्वानर्थप्रथमकरणे सर्वभावैर्जिहास्से देहे मोहो यदि परिणतः पोषणीयो मयेति । आस्तामेवं वपुरिदमिवागामि चास्माकमेवे- त्येषाप्यास्तां मतिरिति परं धर्मशास्त्रेषु घोषः ॥ २६ ॥ कामी कामत्रणपरिगतः कामिनीरेव हित्वा भुङ्क्ते पश्चादपगतभयं कामिनीनां सहस्रम् । इत्थंकारं विषयसुखभोगैकतानैर्नररै- प्यस्मिन्देहे कतिपयदिनान्येष भोगो विवर्ज्यः ॥ २७ ॥