पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां
कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ॥ ८ ॥

छाया तोयं वसतिरशनं वाहनं दीपिका वा
केतुं यस्मिन्किल न सुलभं किंचिदप्यत्र मर्त्यैः ।
तस्मिन्दूरे पथि तनुभृतां सर्वथैवामिगम्ये
प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥ ९ ॥

आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा
मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे।
आपृच्छयन्ते कृतजिगमिवासंभ्रमाः प्राणवाता
नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥ १० ॥

चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने
सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे ।
दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमाना-
स्त्रातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥ ११ ॥

शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्ता
धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः ।
एवं दैवादुपरममगादेष मे वैरिवर्ग-
श्वेतस्त्वेकं न वशमयते किं करोमि क यामि ॥ १२ ॥

नानोपायैर्दिशि दिशि धनान्यर्जयित्वा व्ययित्वा
सम्यक्संपादितमिदमिह स्थौल्यमेकं शरीरे ।
श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि
प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥ १३ ॥

क्वेक्षन्ते मां क्वचन शयितं किंकरा दण्डपाणे-
रीक्षन्तां वा तदपि मयि किं कुर्युरुद्दामवृत्ते ।
कुर्युः किंचित्प्रसभमपि वा घातयिष्यामि राज्ञे-
त्यन्तधैर्यं परमिह वहन्नन्तकं न स्मरामि ॥ १४ ॥